सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48 बह्मसिद्धिव्याख्या ध्यानाद्धतोंकारस्य भूयते, तत्र भवतु प्रतीकाद्युपासनोपदेशः ; यत्र तु युञ्जीत ’ इत्यादरश्रवणादश्रुतकरुपनांप्रमाणाभावच ब्रह्मणः सर्वस्य चोंका रामत्वे वाक्यं पर्यवस्यति तत्र न प्रतीकाद्युपदेश इत्यर्थः । तदुदाहरति- यथेति । “ तद्यथा शङ्कनैकेन सर्वाणि पर्णानि संतृण्णानि, एवमोंकारेण सर्वा वाक् सतृण्णा "; "ओंकार एवेदं सर्वम्’’ इति सोपक्रमोपसंहारं वाक्यं पठितम ; यथा शटुना पत्रमध्यवर्तिना वंशकेनैकेन सर्वतः प्रसृताभिः सिराभिः प्रत्येकं सर्वपत्राणि संतृण्णानि व्याप्तानि तथेत्यर्थः । ननु यद्य- प्योंकारेण सर्वा वाचोऽनुगताः, तथापि कथं तासां तदात्मत्वम् , तादरम्ये ऽपि च तासामर्थभागस्यातदारम्यात् कथमोंकारस्य सर्वात्मत्वम्-इत्याशय इयं संपादयति--अत्र हीति ; सर्ववचोऽनुगमेनोंकारस्य सर्ववाचां तदूपा त्यागादव्यभिचारित्वम्; अव्यभिचारि वस्तुनस्तच्वम्, न व्यभिचारि शुक्तेरिव रूप्यम्; अन्योन्यस्यभिचारिणश्च वाचां विशेषाःन त्वोंकार इत्योंकारो वाचस्तत्वं संत्यरूपम , न तद्विशेषा इति सर्वा वाचः संतृण्णाः” इत्य न्तेन दर्शितवान् सर्वार्थानां च सविकल्पकज्ञानैर्वागनुविद्धानांमुपलब्धेः पूर्वव- हाथूपत्वं सत्यम्; ततश्वथनां वाक़ तत्वम्, वाचकार इत्यभिनेत्य ५ ओंकार एवेदं सर्वभ ” इत्युपसंहरति । सवे च ब्रल ; अत ओंकारो । बनेति भावः । - एवमकारसर्वात्मत्वमविवेकवाक्यगस्यमुक्वा इदानीं सविवेकेऽoि तद्रम्यत इत्याह--यत्रापीति । एतेन पूर्वोक्तसर्वात्मत्वेनोंकारेणेत्यर्थः । नन्वर्थवादत्वात् स्तुयर्थोऽयमुपचार इत्याशङ्कयाह--न चेति । कुत मुख्यार्थत्व “ इति । अर्थवदा अपि गुणाभिधानलक्षणत्वात् स्तुतेः कंचिदर्थमभिवदन्तः स्तुवन्ति, एवमेव स्तुत्यवगमात् ; तस्य च स्तुते रवेरिव "नक्तं देशे ’ इतिवत् प्रमाणान्तरविरोधो निमित्तम ; स चेन्नास्ति ततः प्रतीयमानस्यार्थस्याबधितस्यापेक्षितस्य मुख्यस्य च त्यागेन नाभूतगौणार्थकल्पना युक्तेति भवः । ननु सर्वस्य चेदोंकाराम त्वम् , ततः प्रत्यक्षादिना गृधेत ; न चैवम् ; अतः प्रत्यक्षाद्यनुप लब्बिविरुद्धरवत् कथमविरोध इत्याशङ्कयाह--सर्वस्य हीति । न हि ।