सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

47 वक्षकाण्डः इदानीं क्रमागतमक्षरपदं व्याचष्टे -अक्षरमिति । शब्दात्भतामिति । यदागमैकसमधिगम्यं ये कारादिवर्णविशेषाविलशब्दार्थविशेषानुस्यूतमका रस्य शब्दतन्मात्ररूपं तदास्मतामागमैकगभ्यामात्मन आहेत्यर्थः । नन्वक्षर- शब्दोऽकारादिवर्णापेतं विशेषरूपमोंकारमाह ; तत्कथमपेतवर्णविभागमखिल शब्दार्थानुस्यूतत्वेन सामान्यरूपमेकमाहेत्यत आह--विशेषेणेति । अक्षर- शब्दवाच्येनाकारादिविशेषरूपेण अत्रेण सर्वात्मत्वे श्रुतिविरोधात् अती निद्रयमोंकारस्य पूवोंक्ते सामान्यरूपं लक्ष्यत इत्यर्थः । यद्वा--अक्षरशब्द वर्णात्मकं शब्दविशेषमाह; तत्कथमुपेतविशेषशब्दमात्ररूपतोच्यत इत्याश झ्याह - विशेषेणेति । व्याख्यान्तरमाह-—अपरिणामित्वं वेति ; अक्षरमि त्योहेत्यनुवर्तते । कथमक्षरशब्देन तदुच्यत इत्याह--पीरणाम इति । परि णामे पूर्वधर्मनिवृत्तिरूपस्य क्षरणस्य भावात् , नास्ति क्षरणं च्यवनसस्य पूर्वधर्मादिति क्षरणव्युदासेनापरिणाम्युच्यत इत्यर्थः । तत्र ब्रह्मणः शब्दा मत्वे प्रत्यक्षादेरभावं वक्ष्यमाणभृतीनां प्रतीकोपासनपरस्वं च मन्वानः पृच्छति -- कथमिति । सिद्धान्ती तु नेमाः प्रतीकोपासनपराः श्रुतयः, अपि तु ब्रह्मस्वरूपपरा इति मन्वानः श्रुतिमेव प्रमाणत्वेनोदाहरति-परं चापर मिति । नन्वोंकारामिधेयं ब्रह्म; तदुक्तम् –“ तस्य वाचकः प्रणवः” इति। तेन तदभिधेयस्य ब्रवणः परापररूपतात्रोच्यते, नकारस्येत्याशङ्कयाह न चेति । ननु “ वर्णात् कारः " इति विवक्षितैकसंख्यत्वात् कथं वर्ण समुदायात् ‘ओम्’ इति नाम्नः कारप्रत्यय इत्यत आह-अवर्णदिति ; एकवर्णादन्यस्मादपीत्यर्थः; तस्मात् वर्णात्’ इत्येकत्वमविवक्षितमिति भावः । अत्र चोदयति--नन्विति । प्रतीकमालम्बनं विषय उपासनाबुद्धेः: कारविषये ब्रहबुद्धिः कार्येत्यर्थः । अत्र दृष्टान्तमाह-यथेति । देवताया अव्यक- स्वेन साक्षात् पूजाया असंभवात् तद्वाञ्छने तस्या देवताया लाग्छनानि विद्वानि शङ्कचक्रादीनि यस्मिन् दारुणि शिलायां वा तत्र देवताबुद्धया पूजाविधानम्, तथा सा पूजिता प्रसीदतीति कृत्वा यथा तथेत्यर्थः । यद्वा ओमिति वर्णभेदेन नाम्ना बलैव ध्येयम्; तथा ठप्रसदितीत्याह अनेन चेति । एवं मतद्वयमुपन्यस्य दूषयति - उच्यत इति । यत्र