44 ब्रक्षसिद्धिव्याख्या यथा दाहकोऽप्यमिनं सर्वं दहति, कुत इत्याह -ययात । यथा च दर्पणादिर्यदुपनीयते तच्छयामापद्य तदेव दर्शयति, उपनायकभावे शुद्ध- मषतिष्ठते; तथा आत्मापीन्द्रियाद्युपनीतं बुध्यते, न सर्वम्; मुक्तश्चोपनयका भावान बालं बुध्यत इति । अदमिति ; अयोग्यमित्यर्थः । भोगायतनशरीरस्थ इति ; अन्यत्र सतोऽपि भोगनिवृच्यर्थं विशेषणम् -; मुळी च भोगाभावे उपनायकाभवो हेतुरिति मन्तव्यम् । ननु वहचादेरसर्वगतस्यासंनिहितदा यद्युपनयनापेक्षा युक्ता, न तु सर्वगतस्यात्मनो नित्यसंनिहितसर्वविषयस्य ; अतः सर्वदर्शित्वं मुक्तस्य च बाह्यविषयोपलब्धिः स्यादिति चोदयति . परिहारः स स्यादिति । सिद्धान्ती तु तवाप्येष दोषोऽस्ति ; अतो यस्ते नोऽपि भवष्यतीत्यभिप्रायेण परस्यापि तदोषमासत्रयति-उच्यत इति । आत्ममनःसंयोगेनात्मना च ज्ञ।नमुपजन्यते ; स चात्ममनःसंयोगः सर्व मनोभिः सर्वात्मनां सर्वगतत्वेनाविशिष्ट इति सर्वोपलम्भप्रसङ्ग इत्यर्थः । ननु सर्वात्मनां सर्वमनोभिः संयोगाविशेषेऽपि यो विषयो यस्य विषयस्वे वर्तते स एव तदैवावबुध्यत इति नाव्यवस्था स्यादित्याशङ्क्याह मन इति । न हि विषयाणामात्मनः प्रति स्वतो विषयत्वम्, अपि तु मनःसंयोगमुखेन; अतः सर्वसंयुक्तैः सर्वमनोभिः संयोगाविशेषात् सर्वे विषया विषयत्वेऽस्य वर्तन्त इत्यर्थः । अथ सर्वमनोभिः संयोगाविशेषेऽपि स्वकर्मनिमित्तत्वादुपभोगस्य वकमपनीतमेव भोग्यमुपलभत इति व्यवस्थो- च्यते, ततोऽस्माकमपि ज्ञानरूपोऽप्यात्म कर्मपाशवशीकृतोऽवतन्त्रस्तदुप- नतिमेवार्थं व्यवस्था सेत्स्यतीत्याह--अथेति । ननु बुध्यते, न सवमिति जन्यज्ञानवादिनः कर्मवशात् कचिज्ज्ञानं जन्यते कचिन्नेति युक्ता व्यवस्था ; नित्यज्ञानखभावात्मवादिनस्तु कथं कर्मनिमिचा व्यवस्येति वाच्यम्; न हैिं तस्य कर्मभिर्नियतार्थविषयं ज्ञानं जन्यते, नित्यत्वात् ; तजन्मनि च ततवभावात्मजन्मप्रसङ्गात् । न च विषयान्तरं प्रतिभास्यते, अनित्यत्वा दारमनाशापत्तेश्च । तदा च सर्वानुपलब्धिः प्रसज्यते, न तु व्यवस्था; न बेकस्य विषयभेदेन नाशानशौ संभवतः । अत एव न तिरोधीयतेऽपि। न चार्थं एव कश्चिदात्मनः सर्वगतादपसार्यते, पठादिभिरिवात्रियते वा कर्मभिः; यतोऽव्यवस्था स्यात् । अपि च कर्मनिमित्ता चेद्यवस्था, ततो
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८०
दिखावट