45 मुक्तय क्षणाशेषकर्मणः सर्वदर्शित्वं दुर्निवारम् । उच्यते--ज्ञानमात्मा, न ज्ञाता ; ज्ञातृता च तस्य कर्तुशक्त्यहंकारोपरागनिबन्धना ; अहंकारश्च भोगायतनस्थस्तत्रैव ज्ञातृतामवभासयति; तेन विभोरप्यात्मनो ज्ञातृत्वं प्रादेशिकमेव, न सार्वत्रिकम् ; अतो मोगायतनस्थ एवात्म ज्ञाता, नान्यत्र सन्नपि ; । ततश्च यदेव भोगसाधनैः कर्मभिभोगायतनं प्रत्युपनीतं तदेव ज्ञातुः संनिहितमिति तदेव वेत्ति, नेतरदिति व्यवस्थासिद्धिः । ननु ज्ञान रूपम्यात्मनो विभुत्वात् सर्वज्ञेयसंबन्धोऽस्ति । बाढम् । किमिति ताई सर्वमिदं जाने’ इति न परामृशति ? अज्ञातृत्वात्, ज्ञातुझीये परामशाँ जाने’ इति ज्ञातृत्वं च भोगायतनस्थम्, न सार्वत्रिकमित्युक्तम् । अत एव मुक्तस्यापि न बाह्यविषयतृत; सा हि शरीरस्थत्युक्तम् । अतो ना शरीरस्य भवितुमर्हति । ततश्च मुक्तौ ज्ञानमात्रतंयावतिष्ठते, न ज्ञातृतया; अतस्तेन संबद्धमपि जगत्तध्वं न ज्ञेयतया संबद्धम् ; कर्तुर्हि कमणा संबन्धः । ननु न ज्ञानमपि ज्ञेयं विनास्ति ; सकर्मको हि ज्ञानार्थ इत्युक्तम् : अतः कथं ज्ञेयं विना मुक्तज्ञानमवर्तिष्ठते इति चेत्, न ; आदित्यप्रकाश- वदुपपत्तेः; यथा रवरवादेत्यप्रकाशः प्रकाश्यानपेक्षसिद्धिः, एवं ज्ञानमपि श्रेयानपेक्षसिद्धिः । ननु सकर्मको जानात्यर्थः । सत्यम्; बुद्धिवृत्तं तु तत्; तद्धि सकर्मिका क्रिया, सा कर्मपेक्षेति युक्तम; नित्यं च ज्ञानम्, न क्रिया; क्षणिका हि सा । कथं तर्हि तस्याध्यस्तैज्ञातृमावस्यापि ज्ञेयेन संबन्धः? न ; क्रियागमें हैि सः। सा च बुद्धेरित्युक्तम् । न चान्य- क्रियागमोऽन्ययोः कर्मकर्तुमावो भवति । सत्यम्, अन्यत्वावगतौ, अवि वेके तु तयोरन्यक्रियाया अपि तत्कर्मण्यस्य कर्तृता स्यादेव ; यथा देदः गतया गत्या तद्विविक्तस्यास्मदर्थस्यात्मनो ‘ग्राममहं गच्छामि’ इति । तत्कि- मिंदान हे ज्ञाने ? चिदेव स्वप्रकाशा ज्ञानम्; तदविवेकालु लोको बुद्धि वृत्तौ ज्ञानपदं प्रयुङ्क्ते । ननु लोकप्रयोगगम्यः शब्दार्थः ; अतस्तत्र प्रयोगात्तदेव ज्ञानपदार्थः स्यात्; न तु चिल्वप्रकाशा । न, स्वयंप्रकाश ज्ञानाध्यासेनैव बुद्धिवृत्तौ प्रयोगात्; यदध्यासेन यः शब्दो यत्र प्रयुज्यते स एव तस्य मुख्योऽर्थः, शुक्ताविव रजतशब्दस्य रजतम् । कथं पुन रवगम्यते - अध्यस्तवप्रकाशज्ञाने बुद्धिवृत्तौ लोके ज्ञानपदप्रयोग इति ?
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३८१
दिखावट