पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4B द्वोधरूपतया तुल्यत्वमुच्यते, तदविशिष्टं योगिसर्वज्ञज्ञानयोरपि; ततश्चोप- दानोपादेय भावादेकसंतानत्वं पूर्वसंतानानुच्छेदापुनरप्यनिर्वाणं स्यादित्याह कथंचिदिति ॥ इदानीं क्रमप्राप्तं विज्ञानपदं व्याख्यातुं तद्दशवर्यं परमतमुपन्यस्यति केचिदिति । आत्ममनःसंयोगजं विज्ञानं गुणो यस्येति विग्रहः । अविज्ञान स्वभावमिति; स्वतो जडमित्यर्थः । सम्यगुत्खाता उन्मूलिताः सकला बुद्धि सुरवदुःश्वेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराख्या विशेषगुणा यस्मिन्निति विग्रहः । तस्येति ; आत्मत वस्येत्यर्थः । ज्ञानस्वभावोऽपि चेन्मनःसंयोगसापेक्षो जानाति तत एव तर्हि ज्ञानमुत्पत्स्यते, तेन वृथा तत्खभावत्वकल्पनेति । कणभुजो मतम् । कथं स्वरूपावस्था ब्रह्मशब्देनोच्यत इत्याशङ्क्य तस्य प्रवृत्तिनिमित्तमाह-सा हीति । देहादिभिरनवच्छिन्नत्वं ब्रुइवे हेतुः; वृह वाच ; ब्रक्षेति गीयते ‘बृह बृहि वृद्धौ’ इत्यस्मात् ब्रसशब्दव्युत्पत्ते रिति भावः । एतच श्रौतवलेशद्योतनार्थमुक्तमिति मन्तव्यम् । ज्ञान- स्वभावात्मपक्षे तु दोषमाह--नखभावत्वेति हो चशब्दस्तुशब्दार्थे । न तावदसंनिधानात् सर्वं न बुध्यते, सबेगतस्य सर्वत्र संनिधानात् । न च सर्वगतोऽप्यसर्वगतदेहेन्द्रियादिसापेक्षः सर्वे न बुध्यते, नित्यत्वाज्ज्ञान- रूपस्य ; ज्ञानोत्पच्यर्थं हि देहाद्यपेक्ष्यते ; नित्यत्वादात्मने ज्ञानरूपं नित्यम् । अतश्च संनिहितविविधज्ञेयविशेषत्वात् सर्वमात्मा बुध्येत ; ततश्च बद्धस्य मुक्तस्य च यथादृष्टनियतार्थगोचरात् संसारात् सर्वदर्शित्वेन बृहत्तरः संसारः स्यादित्यर्थः । अथैतदोषभयात् न किंचिजानातीत्युच्यते, प्राप्तं तर्हि जडत्वम् गतेरिव गम्यमन्तरेण जानात्यर्थस्य ज्ञेयं विनानुरुपत्तेः । न चात्मैव क्षेयः, कर्तृकर्मत्वविरोधात् । तदेतत् समशङ्कमाह--अथेति । तदेव परमतमुपन्यस्य योजयति तन्निवृत्तये विज्ञानपदं - तानिति । परः पूर्वोक्त दोषदृष्टिः पृच्छति- कुत इति । सिद्धान्ती तु न वयं प्रयोजनबलात् चित्स्वभावत्वं ब्रूमः, किं तु श्रुतिबलादिति मन्यमान आह –भूयत इति । ननु प्रागुक्तदोषबलाच्छूतेरर्थान्तरत्वं कल्पयिष्याम इत्यत आह-न चेति । आदर्थान्तरकल्पना श्रुतेः, यद्युक्तो दोषः स्यात् ; स तु नास्तीत्यर्थः । ।