पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्तरानुपपत्तेरनिवृत्तावनिमक्षप्रसङ्ग इति पराभिप्रायमाशङ्कय परिहरात- स चेति । सामान्येनेति ; अविशेषेणेत्यर्थः। ‘सः’ इति श्रवणादिपूर्वो ध्यानाभ्यासः परामृश्यते । एतदेवान्वयव्यतिरेकाभ्यां प्रपञ्चयति--अ हीति । यदि श्रोतृश्रवणादिभेदं विहाय भेदान्तरप्रविलापकाः श्रवणादयः स्युः, ततः स्यादेष दोषः; ते विशेषेण सर्वमेदान् प्रविलापयन्तस्तदन्तर्गतत्वादात्मान मपि प्रविलापयन्ति ; ततश्व न तेषामनिवृत्तिः; नापि निवर्तकान्तरापेक्षेति भावः; ततश्च नानिर्मोक्षदोष इत्याह--तया चेति । खच्छ इति खफाव निर्मलवमाह । परिशुद्ध इति ; अपगतागन्तुळाविद्याकालुष्य इत्यर्थः । अत्र दृष्टान्तमाह--यथेति ; यथा द्रव्यविशेषस्य कतकादेश्चूर्णरूपं रजः कर्तुं प्रक्षिप्तं सत् रजोऽन्तराणि संहरत् खयं च संह्रियमाणं रजःसंपईकलुष मुदकं कर्मभूतं वरूपावस्थां नयतीत्यर्थः । दृष्टान्तमुक्त्वा दार्थन्तिकेऽपि योजयति--एवमिति । मेददर्शनत्वेन विशेषाभावात् तद्भते श्रवणादिगते च मेदे प्रविलीयमाने जीवः स्वच्छे स्वरूपेऽवतिष्ठत इत्यर्थः । ननु ब्रह्मणो विभक्तो जीवोऽविद्याविलये खरूपस्थोऽपि तथैवावतिष्ठते ; अतो न बभी भावोऽस्य स्यात् ; शूयते चासौ – ‘ब्रह्म वेद बलैव भवतेि ” इत्याशङ्कयाह –अविद्ययेति । यदि ब्रह्मणो जीवस्तवतो भिन्नः स्यात् ततः स्यादेवम्; किं त्वविद्यया ; अतो विद्ययाविद्यानिवृत्तौ यथाबद्धरूपमेव भवतीत्यर्थः । अत्र दृष्टान्तमाह--यथेति । भेदे ; विदारण इत्यर्थः । तदाकाश इति ; घठा काश इत्यर्थः । पर इदानीं विजातीयत्वमयुक्तमुष्णशीतािदिषु निवर्तकत्वं दृष्टभिस्यभिमानेन पुनः प्रत्यवतिष्ठते- स्यादिति । श्रवणादिभेदेन प्रपञ्चः कथं निवर्तेत ? अविद्यावाविशेषादिति भावः । सिद्धान्ती तु सजातीयस्यापि रजसः प्रतियोगिनो रलोन्तरनिवर्तकत्वं दृष्टम्; विजातीयस्यापि रूपरसादे रस्रतियोगिनो न दृष्टम् ; अतः शीतोष्णादावपि प्रतियोगित्वप्रयुक्तमेव निवर्ते कत्वम् } तव श्रवणादिभेदस्याविद्याकृतत्वेऽपि व्यक्तमस्तीत्याह- मेदेति । प्रतिपक्षत्वमाह--व्यक्तमिति । श्रवणादेः स्वयं निवृत्तौ सजातीयस्य च निवर्तकत्वे दृष्टान्तहयम परमाह-यथा चेति । यद्यपि पयो लाठरेणामिना जीर्यति, तथापि पयोन्तरमनपेक्ष्य जीर्यतीत्येतावता साम्येन स्वयमित्युत्कम् ; |