पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 ब्रह्मसिद्धिव्याख्या मविद्याकलुषाणामविद्याकल्पितश्रवणादिलक्षणहेतुकविद्योदयाद विद्यानिवृत्तिर्घटत इत्यर्थः । विलक्षणः प्रत्ययः कारणं यस्य स तथोकःविलक्षणप्रत्यय- श्चासौ विद्योदयश्चेति कर्मधारयः; विलक्षणश्चासौ प्रत्ययविद्योदयश्चेति वा । ननु जीवानामपि विद्या । नैसर्गिकपस्ति, अतः सैवाविद्यानिवर्तिका, नागन्तुकी विलक्षणेत्यत आह--न हीति । अविद्यामय एवं जीव इत्युच्यत इत्यर्थः । ननु विद्यास्वभावाद् अत्रणो जीवानामभेदात् कथ मविद्यामयत्वमित्यत आह--अव्यतिरेकेऽपीति । यथा बिम्बं मुखद्यवदतं तत्प्रतिबिम्बं च कृपाणदद्वनवदतमेवं ब्रवणे विद्यात्मत्वेऽपि जीवाना मविचेति व्यवस्थेत्यर्थः । ननु न तावद्रह्मविद्यानिवर्तकम् , नित्यनिवृनि- प्रसङ्गात्; न चाविद्यान्तरम्, अविद्यात्वाविशेषेणाप्रतियोगित्वात् , निवर्तका निवृत्तिप्रसङ्गाच्च, निवर्तकान्तरकल्पनयां चनवत्थानात् ; न च ब्रह्म विद्याभ्यामन्यन्निवर्तकं तवास्तीत्यभिप्रायेण पृच्छति--केनेति । सिद्धान्ती तु रजस्त्वाविशेषेऽपि यथा कतकरजो रजोऽन्तरप्रतियोगिं तन्निवर्तकं च भवति तथा अविद्यात्वाविशेषेऽपि श्रवणाद्यविद्या प्रपश्वविद्यायाः प्रतियोगिनी निव निं च भविष्यतीत्यभिप्रायेणाह--श्रवणेति । तत्र श्रवणमननयोः शब्द र्विद्योत्पत्तिक्रमेण, ब्रह्मचर्यादेश्च कर्म षक्षयक्रमेण, ध्यानदेशद्वयात्मप्रकार शाभिव्यक्तिकमेणाविद्यानिवृच्युपायत्वमिति विवेकः । श्रवणं वेदान्तस्य, मननं तर्केण तदर्थानुसन्धानम् , ध्यानाभ्यासस्तदर्थानुचिन्तनादृत्तिः । परश्च तुल्यजातीयस्य श्रवणदेः प्रतियोगित्वासंभवाभिप्रायेण पुनः पृच्छनि- कथमिति । सिद्धान्ती तु किमत्र वक्तव्यम् ? अविद्यावाविशेषेऽपि श्रवणम ननपूर्वेको न कर्णमूलोपदेशपूर्वको योऽये “ स एष नेति नेति" इते वीप्सया प्रतिषिद्धावियभिधमानप्रपञ्चे ध्यानाभ्यासः सोऽत एव प्रपञ्चदन प्रतियोगी; अतस्तन्निर्तयतीत्याह--योऽयमिति । प्रतिषिद्धोऽविलभेदप्रपञ्च यस्मिन् स तथोक्तः । देहादीनामास्मत्वप्रतिषेधोऽयम् , नाखिलप्रपञ्चप्रतिषेध इति चेत्, न ; देहादेरभृतत्वाद शुनकल्पनाप्रमाणाभावाच्च । तस्मात्प्रतिषेध्या पेक्षायामगृणविशेषत्वादखिलप्रपश्प्रतिषेध एवायमिति सूक्तम् प्रतिषि दाखिलभेदप्रपञ्च इति । नन्वेवमपि श्रवणादेर्भाददर्शननिवर्तकस्य निवर्तका