पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मशकाण्डः R5 तान्निवृत्यर्थानि शास्त्राणि व्यर्थानि स्युरित्यभिप्रायेणाह--सर्वेति । दृश्यते च स्वाभाविकर्याण्युच्छेद इत्याह - अपि चेति । परस्तु श्यामतादिवैषम्यः मापादयन् चोदयति--नन्विति । प्रत्ययः ; हेतुरित्यर्थः । न विद्यते । आगन्तुको द्वितीयोऽर्थो यस्य स तथोक्तः । तदभावात्; विलक्षणप्रत्ययोप निपाताभावादित्यर्थः । कुतो निवृत्तिः ? अविद्याया इयध्याहार्यम् । ननु मा भूदागन्तुको हेतुः ; आमनो विद्यात्मकत्वात् तत्व भावभूतैव विद्य अविद्यां निवर्तयिष्यतीत्यत आह न वल्विति । विद्याविधे चेदेकत्रात्म नीच्छसि, ततस्तयोः स्वभावावस्थानादविरोधे न निवर्यनिवर्तकभावःविरोधं वा विद्ययात्मन्यविद्या नित्यनिरसेति तन्निबन्धनत्वाभावान्नित्यमुक्तं जगत् स्यादित्यर्थः । अविद्याया इति काकाक्षिवदुभयत्र संबध्यते । तयेति ; विद्ययेत्यर्थः । श्रवणादिजन्यमागन्तुकं विद्यान्तरमविद्यां निवर्तयिष्यतीति चेदत आह न चेति । आगन्तुकस्यापि विद्यान्तरस्य बझखभावत्वात् नैकाम्यहानिरिति चेदत आह -आगन्तुकेति । नानित्यस्य नित्यखभा वत्वं घटत इत्यर्थः । अत्रैवथे परोक्तं पठति-तदुक्तमिति । अत्र सिद्धान्तमाह - अत्रेति । प्रतिबिम्बदृष्टान्तेनोक्तमित्यर्थः । क स्माल बण इत्याह--तडीति । अविद्यानिवर्तक आगन्तुकेऽर्थेऽस्य नास्तीत्यर्थः । यद्अनागन्तुकार्यमनाधेयातिशयमित्यर्थः । तत्र नित्य । प्रकाशत्वेन स्वाभाविक्याविधा नास्तीत्युक्तम्; अनानागन्तुकार्थत्वेन चागन्तु क्यपि सा नास्तीत्युक्तमिति विवेकः । विद्यास्वभावे ब्रह्मण्यविद्याकलुषितत्वं नास्तीत्युक्तम् ; यदि च स्यात्ततो महन् दोषः स्यादित्याह-अन्यथेति । अशभूयं गतस्येति ; ब्रह्मभावं प्राप्तस्येत्यर्थः। ततः किमित्यत आह -तत्रेति । जलैच संसरति मुच्यते च, न जीवा इति च तेषां मतम् ; तदनुभाष्य दूषयति-अथेति । अत्रैव ; न जीव इत्यर्थः । कुत इत्याह-यत इति । अभेददर्शनाद्रक्षाणि मुक्के, अन्यस्य भेदत्रष्टुर्घहस्याभावात्सर्वभेदभत्यस्तमये युम पत् सर्वमोक्षप्रसङ्ग इत्यर्थः । स्वपक्षमुपसंहरति -- तस्मादिति । नन्वस्तु जीवानामविद्या; तथाप्यैकात्म्ये विलक्षणहेत्वभावात कथमविद्यानिवृत्तिरिति पूर्वोक्तमाशङ्कन्य परिहरति--तेषामिति । विलक्षणसत्यहेत्वभावेऽपि जीवाना