पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

34 ब्रह्मसिद्धिव्याख्या

मायिकीं सृष्टिमाश्रित्य विकारपक्षानभ्युपगमेन पूर्व परिहृतम् ; अधुना तद
म्युपगमेऽपि नैष दोषःकिमुतास्माकं मायावादिनामित्यभिप्रायेणाह
तथेति । प्रकृतिविकारयोरत्यन्तमवैलक्षण्ये प्रकृतिमात्रवत् प्रकृतिविकारभाव-
भेदो न स्यात्; अतोऽस्ति तयेवैलक्षण्यम्; एवं च शुद्धादप्यशुद्धा
विकृतिर्भविष्यतीत्यर्थः । दृष्टं चान्यत्रापि प्रकृतिविकारयोर्वैलक्षण्यम्, तद्-
दिहापि स्यादित्यभिप्रायेणाह –द्रवाणामिति । अचेतनचेतनौ चेतनानधिष्ठिता-
धिष्ठितौ द्रष्टव्यौ ।

इदनीमीतिमते पुनश्चोदयति – नन्विति । विशुद्धख भावाः; विमल
विद्याच मावा इत्यर्थः । सिद्वन्ती तु शुद्धादभिन्नमप्यशुद्धं भात्येवेति दर्श-
यन्नाह-वार्तमिति ; असारमित्यर्थः ; वार्तात आगतं वार्तम्; निष्प्रमाणक
मित्यर्थः । कुत इत्याह--न तावदिति । कथं पुनर्बिम्बाबप्रतिबिम्बं न भिन्नमें ?
सावयवस्यावयवसंयागमन्तरणानुपपत्तेः । न न तस्यावयवा दृश्यन्ते । न
च फलप्या, अन्यथापि तत्प्रतिपयुपपत्तेः । सावयवस्य च निरन्तरे दर्पणे
स्थित्यनुपपत्तेः; बिंबरूपप्रत्यभिज्ञानाच्च; स्पर्शनेन चानुपलब्धेः सावय
वस्य अवयवतसंयोगनाशमन्तरेणानाशत्अस्य च बिम्बसंनिधिमात्रेणा
भासात्; तस्माद्विम्बमेव भ्रान्त्या मिन्नं भातीति स्थितम् । ननु शुद्धा-
दभिन्नस्याशुद्धिस्तत्वतो न घटते ; प्रतिबिम्बे तु भ्रान्तिः चेत्याशङ्क्य इहापि
श्रान्तिरिय ह विभाग इति । भ्रान्तित्वमेव द्रढयति-अन्यथेति । तव
तस्तु जीवनामशुद्धस्वभावत्वे शुद्धिर्न स्यादिति स्वभावाहनात् ’ इत्यत्रोक्त
मित्यर्थः । अत्र पुनश्चोदयति--स्यादिति । ऐकात्म्यवादेनस्तद्यतिरिक्त
आगन्तुको हेतुर्नास्तीति भावः । सिद्धान्त वाह--किमत्रागन्तुकेनान्येन
हेतुना? आगन्तुके हि प्रतिबिम्बादिभ्रमे सोऽपेक्ष्येत ; अनादिस्त्वयं जीव
भ्रमः; अतश्चानदतवाग्रहणादेवोपपत्तेरागन्तुकबाह्यहेत्वन्वेषणमयुक्तपित्यभि-
प्रायेणाह - अनादाविति । अनादित्वाच्चाविद्यप्रवृत्तिहेत्वभवचोद्यमपे परि
हतमित्याह--तथा चेति । अत्र चोदयति--नन्विति । हेतूच्छेदाडि हेतु
मदुच्छेदो दृष्टःअविद्या वनादित्वात् स्वाभाविीति निर्हतुः; अतः कथः
उघेतेत्यर्थः । सिद्धान्ती तु स्वाभाविक्यप्युच्छिद्यते तावदविद्या; अन्यथा