3B दुःखबहुला च दृष्टिरित्यर्थः; तदुक्तम्-“ यूजेच्च शुभमेवैकमनुकम्पा प्रयोजितः” इति । न च स्खोपयोगि किंचित्प्रयोजनमस्तीस्याह—नेति । आप्तकामत्वादिति ; " आप्तकामः आत्मकामः " इति श्रुतेराप्ताशेषकाम्य- वेन कृतार्थत्वादित्यर्थः । तदुक्तम् “क्रीडार्यायां प्रवृत्तौ च विहन्येत कृतार्थता” इति । क्रीडादिरित्यादिशब्देन कुतूहलमुच्यते । एवं पर्यनु योगमुक्त्वा तस्यानवकाशत्वमाह---तस्येति । कुत इत्याह--न हीति । तदेव लौकिकदृष्टान्तैर्द्रढयति--नेति । प्रकृतिविकारपक्षोक्तोऽपि दोषो नास्मत्पक्षमास्कन्दतीत्याह--तथेति ; विमलस्यापि व्योम्नस्तळमलिनादिभ्रम- दर्शनादिति भावः । अविद्याकृता नुष्ठिरप्रयोजनेत्युक्तम्; इदानीमभ्युपः गम्यैव क्रीडार्थं प्रद्युद्वं पूर्वोक्तदोषाभावमाह-—अपि चेति । क्रीडार्थ- प्रमुत्तिः ; क्रीडा भवतीत्यध्याहार्यम् । उछासदिति ; प्रोत्साहादित्यर्थः । प्रार्थनेति; कामप्रथेनावता कृतार्थप्रवृत्तिरेवे कीडोच्यते, न कार्याति मावः । ननु सुखिदुःविदृष्टे रागद्वेषहेतुत्वेन द्रष्ट्टत्वादीश्वरस्य तद्वेन वैषम्यै स्यात्; तथा दुःखिनः सृजतो ण्यं च स्यादित्यत आह-न चेति । कुत इत्याह--न हीति । मायां करोतीति मायाकरः शाम्यरिकःतस्य संपूर्णमसंपूर्णी च रुयादिप्रपत्रं दर्शयतो यथा न रागद्वेषौ तथेति खपक्षे दृष्टान्तः। सत्यप्रपश्वादिपक्षेऽपि तमाह--चित्रेति । पुस्तं लेख्यम ; छताम् ’ इति कुत्रः किबन्तात् षष्ठीबहुवचनम् । विकलाविकलत्व मसंपूर्णसंपूर्णाङ्गत्वम् । चित्राणीत्युपलक्षणम्, लेख्यमपि द्रष्टव्यम् । । प्रतिकृतिः प्रतिरूपकम् । परिहारान्तरमाह-कर्मेति । पर्जन्यस्थानीयो ईश्वरः साधारणं कारणम् । सुखिदुखिभेदस्तु सकर्मभेदादोजभदादिवाङ्करः मेद । तस्मान्न तय वैषम्यादिदोष इत्यर्थः । नन्वेवं कर्माशयपारतन्त्र्यात खातन्यलक्षणमैश्वर्यं न स्यादित्यत आह--न चेति । एतदुक्तं भवति- नान्यापेक्षित्वमात्रेणानीश्वरत्वं स्यात्; न हि लोके सेवविशेषापेक्षः फलं प्रयच्छन् प्रभुरप्रभुः अक्षश्च तदपेक्षोऽपि यथा फलं दातुं प्रभवतीति स प्रभुः, नेतरः; तथा कमीपेक्षोऽपि स एव फलं दातुमीष्टे नेतर इति तस्यैवेश्वरस्वमिति । पुरुषस्य च युद्धस्य नाशुद्धा विछतिः ” इति चार्च
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३६८
दिखावट