B8 त्रयसिद्धिव्याख्या न हि दृष्टान्तेन सर्वथा । साम्यं भवतीति भावः । श्रवणाद्यविचैवाविद्यां निवर्तयतीतमिं श्रुत्या द्रढयति--यथोक्तमिति । मन्त्रार्थं स्पष्टयति एतदिति । विद्या विशुद्धविज्ञानं नित्यम् ; अविद्या श्रवणादि; ते युपायोपेय आवेन सहिते संबडे इति यथाक्रममाभिसंबन्ध इति । ननूपेया चेद्विद्य, साध्या तेर्हि ; न’ ह्यसाध्यस्योपेयत्वं । घटते ; अतश्चानित्यत्वामित्याशङ्कय मन्त्रस्योत्तरार्ध योजयति--साध्येति । तद्यचष्टे-एष इति । नाविद्या विद्यां जनयते, किं त्वविद्यानिवृत्तिम्; विद्यां तु व्यनक्ति, तेन व्यङ्गयतया- पेयत्वं विद्यायाःन जन्यतया ; अतो नानित्यत्वमित्यर्थः । एतच्चारमस्ख- भावभूतनित्यविद्याभिप्रायेणोक्तम् । ननु “मृत्यू तीर्थ’ इति मृत्युनिवृत्तिः भूयते, नाविद्यनवृत्तः ; कथमविद्या निवर्यत इत्युच्येत ? इत्याशङ्कयाह मृत्युरिति । चतुर्थं मन्त्रपादं योजयति--तस्यामिति । ‘विद्यया' इति इत्थंभूत- लक्षणे तृतीया । खरूपावस्थानमत्यमृताविवरणम् । नन्वविद्या’ चेदविद्यां निवर्तयति न ततः स्वरूपलाभाय प्रयतितव्यमित्याशङ्क्याह-स्फटिकेति ; यथा स्फटिकमणेर्जपाद्युपाध्यपनयाय प्रयत्नादेव तन्निबन्धनरागत्यागात् प्रयत्ना न्तरमन्तरेण खरूपेऽवस्थानं तद्वदिहापीत्यर्थः । अत्र केचिदाहुः-- कुर्वन्नेवेह कर्माणि” इत्यतो मन्त्रात् कर्म प्रकृत मविद्याशब्देन विद्यापर्युदासेनोच्यते ; तस्मात् ज्ञानकर्मसमुच्चयपरोऽयं मन्त्र इति । तदसत् ; ‘अविद्य’ इति हि नश्रुतिरधर्मवत् स्वशक्त्या विद्याविरुद्धम सम्यग्ज्ञानमज्ञानं चाह, नान्यमात्रम् । अत्र श्रुतश्च प्रकरणाद्वलीयसी । तस्मान्न ज्ञानकर्मसमुच्चयपरोऽथ मन्त्र इति । मन्त्रस्यार्थान्तरमाह--अन्य इति । आविद्या प्रपञ्चदर्शनं न विद्यया कूटस्थात्मप्रकाशेन रहितमस्तीत्यर्थः । एतदेव दर्शयति--तथा हीति । न जडस्य स्वतः प्रकाशः संभवति ; न च परतः, खभावाहनात; न चात्म स्थेन प्रकाशान्तरेण स्वप्रकाशेन, अविकारित्वादात्मनः । न च प्रकाशेनासं- महस्य प्रकाश इति भावः । उपसंहरति--तस्मादिति । तथा तथेति; तेन तंन प्रपद्यरूपेणेत्यर्थः । एतदेव श्रुत्या द्रढयति--यथेति । अत्र कश्चिदाह--
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३७३
दिखावट