पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26 महासिद्धिव्याख्य ननूक्ता शिरःपादादिभेदेन कल्पितादपि भेदात् व्यवस्था सयमुक्ता किं तु भ्रान्तिः सा, न तवसं इत्याह--उदाहतेति। 'सस्यम्’ इत्यभ्युपगमे सिद्धान्ती त्वाह अत्रापीति । अस्माकमपि सवै विभ्रम एवेत्यर्थः । उदा. हृता तु व्यवस्थेत्ययमेव सिद्धान्तः । तत्र 'सत्यम् ’ इति परेण चोदिते, अत्रापि विश्रमत्वमिति पुनः परिहार इति ग्रन्थो योज्यः । यथोक्तं कल्पितात् कार्यं न दृष्टमिति तयभिचारयति -कल्पितोऽपीति । कल्पित इति ; असति दशे भ्रान्त्याध्यवसित इत्यर्थः । न च ज्ञानं तत्र मृतिहेतुःन त्वसस्यमिति वाच्यम्; ज्ञानमात्रस्य सर्वत्राविशेषात् । अथाहिदंशविशिष्टमित्युच्यते, प्राप्तं तर्हि यथा मृतिहेतुत्वं तथा कल्पितत्वामित्यदोषः । दंशः सर्वथा कल्पितः, जीवे तु भेदमात्रम्; अतो न सर्वथा साम्यमिति तदर्थं प्रति सुर्यमुदाहरति---प्रतिसूर्यक इति ; दर्पणादौ कल्पितभेदमात्रे सूर्यप्रतिबिम्बं प्रकाशकायाय कल्पत इत्यर्थः । तदेवमात्मभेदहेतुं भोगादिव्यवस्थामात्माभेदेऽप्युपपाद्यधुना द्रष्टुइश्ययोर्ड १यानां च मिथो भेदहेतुं दूषयितुमनुभाषते -यदपाते । तनखं तावडेतु मसिद्धत्वेन दूषयति --तदपंत । द्रष्ट्रवगमपुरंःसरो दृश्यावगम , न तु विपर्ययः ; यथा चैतन्निर्वहति तथोक्तम् ‘यथा च कर्तर्यसवे ' इत्यत्रेत्यर्थः। द्वितीयमपि हेतुमसिध्दत्वेनैव दूषयति-दृश्येति ; प्रमाणस्य प्रत्यक्षादेर्डश्यभेद ग्रहणासामथ्र्यादित्यर्थः । वक्ष्यत इति आहुर्विघातू प्रत्यक्षम्’ इयत्रेत्यर्थः । योऽपि भिन्नदृश्यसद्भावहेतुर्थच्छक्तेरर्यवच्वमुक्तः तोऽपि दृश्याभावेऽपि घठन इत्याह--दृगिति ; आत्मानमेव तया द्रष्टा द्रक्ष्यतीत्यर्थः । ननु कर्तुः कर्मत्वं विरुध्यत इत्युक्तमित्याशङ्कयाह-न चेति । यथा प्रदीपः प्रदीपान्तरनिरपेक्षः स्वत एव प्रकाशते तथास्मापि ; ततश्च न विरोध इति भावः । यदि नाम प्रदीपः प्रदीपान्तरनिरपेक्षः बुद्धिवेद्यस्तु भवस्येवेति अबुद्धिवेद्यकं स्वतःसिद्धं प्रमाणफलं दृष्टान्तधति –प्रमाणेति । न च सेवेद्यम्’ इस्त्रोक्तमित्यर्थःइदानीं स्वपक्षे गुणमाह--अपि चेति ; द्रष्टुढश्वयोरेकत्व इत्यर्थः कुत इत्यत आह--द्रष्टुरिति । तेन तेन दृश्यरूपेण विपरिणमादिति परमतम् । विवर्तनादिति ; अतटूपस्य श्रान्त्या तदुपाध्यासादितेि स्वमतम् । किमत्र