पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बह्मकाण्ड 25 च पृथनिर्देशाभिप्रायो वाच्यः । अत्र चोदयति--स्यादेतदिते । ययै कस्मिन् देहे एक एवात्मा पादशिरसोर्वेदनामनुसंधत्ते, तथा देहद्वयेऽप्येक आत्मा के नानुसधत इत्यर्थः सिद्धान्त तु सिद्धान्तान्तरदूषणं नाम निग्रहस्थानमाह--अन्यादेति । आत्मैक्ये देहद्वयेऽप्येकदेहवदनुधानं स्यात्, न च । तदस्ति ; तस्मान्नात्मैक्यमिति प्रकृतसिद्धान्तदूषणमेवेदमित्यपरितोषात् परिहरान्तरमाह-अपि चेति । यथैकस्मिन् देहं शिरःपादकल्पितभेदो जीवप्रदेशो नान्योन्यस्य वेदनामनुनंदधाति, तथैकस्य परमात्मनशा बुद्या द्युपाधिकल्पितभेदा जीव अपीत्यर्थः । परमात्मनरचनसंधानंमसं भवनिरस्तम् ; तद्यन्तःकरणधर्मः; न च तस्य तदस्तीति भावः । कल्पितभेदनिबन्धन- व्यवस्थायां दृष्टान्तान्तरमाह--तथेति । मुखादीनां मेदामावेऽपि मणिकृपा णदां वर्णस्य श्यामादेः संस्थानस्य च|वयवसनवंशावशेषस्य भेदेन व्यवस्थाने संदृश्यते तथात्रापीत्यर्थः । एवं भोगव्यवस्थामुपपाद्य इममेव न्यायं मुक्तसं- सरिल्यवस्थायामप्यतिदिशन्नाह--एवमिति । इममेवार्थ दृष्टान्तेन द्रढयति तथा हीति । यथैकोऽपि जीवः शिरःपादावुपाघिकल्पितभेदप्रदेशद्वारेण सुरवादिभिर्युज्यमानो यत्र तैर्युक्तः तत्र बद्धः ततोऽन्यत्र तैर्मुक्त इत्यवगम्यते । तथास्माकमपि भविष्यतीति भावः । अत्रैव । दृष्टान्तान्तरमाह--तयेति । यथा मलिनामलिनयोर्दर्पणयोरेकमपि मुखं मलिनममलिनं भाति तथा मलि नामलिनयोरन्तःकरणयोरेकोऽप्याम दुःरवी सुरवी चेति द्विविधसंसारिकथनम् यथा वादर्पणं तदेव मुखं तदोषमुक्तं तथानन्तःकरणमा तद्दोषदुःरवादि भिर्भक्तो भवतीति व्यवस्थासिद्धिरिति भावः । अत्र चोदयति--स्यादिति । कल्पनेति भावप्रधान निर्देशः । कल्पनात्वमसदर्थत्वं प्रतिपत्तः प्रत्ययस्य धर्मः, न वस्तुधर्मः अतो न वस्तु व्यवस्थापयितुमलमित्यर्थः । यद्वा प्रतीक यतेऽनेनेत्यन्तःकरणं प्रत्ययः, तस्य धम मिथ्याज्ञानं कल्पना ; न रवांल्वत्यत्र तु कल्पनैव प्रत्यय इति । कुत इत्याह- न खरेवति । न हि यद्यथा ज्ञातं तत्तथैव स्यात् ; न हि शुशुक्ती रूप्यतया ज्ञाता रूप्यमेव स्यात् ; ततश्च उपाधिभेदादात्मा भिन्नो विज्ञातः, न तन्वते मिन्नः स्यात्; अतो न . भोगादिव्यवस्थेति भावः । किं च कल्पितज्जीवारकार्यमपि दृष्टमदृष्टं च न स्यात् कल्पिताभिभावादिव माणवकादित्याह--न चेति ॥