पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= = 24 वक्षसिद्धिव्याख्या ८ द्विवचनान्तेन समासः । अभ्युदयविरोधित्वं प्रसिद्धत्वादुपेक्ष्य निःश्रेयसविरो- 1. षित्वे हेतुमाह-तथा हीति । “ नान्यत्र सर्वसंत्यागान्मोकं विन्दति मानवः ” इति सर्वत्यागान्मोक्षः श्रुतः । न च पुत्रकलत्रादावारमा- भिमाने सति त्यक्कुं शक्य इति मोक्षो न स्यादित्यर्थः । एकत्वोपचारोऽ. भ्युपगममात्रेणोक्तः, न तु श्रुतेरभिप्रेत इत्याभिप्रायेणाह--तथेति । अव धार्यतेऽनेनेत्यवधारणमेवकारःअद्वितीयशब्दश्चताभ्यां तस्यैवार्थस्याभेद- रूपस्य पुनः पुनरभिघागत् सर्वप्रकारं न केवलं जात्याद्यामना अपि . तु व्यस्यात्मनापि भेदनिवृत्तिपरता श्रुतंलक्ष्यत इत्यर्थः । अत्र हेतुमाह अभ्यासे हीति । भूयस्त्वं वैपुल्यमतिशयितस्वम् , सर्वथा भेदस्य गन्धोऽपि नास्तीति यावत् । एव च भेदाभेदवादिनोऽपि श्रुत्वैव निरस्ता इति मन्तव्यम् । एवमभदपरादन्नायादात्मदृते प्रसाध्य अधुना भोगव्यवस्थानादल्या त्मनां भेदे हेतुं परेकमनुभाष्य दूषयति--यविति । आत्मैकत्वेपि बुद्या- द्युपाधिभेदेन कल्पिताद्वेदात खस्य करकापवरकभेदादल्पत्वमहवष्यवस्थेव भोगव्यवस्थापि सेत्स्यतीत्यर्थः । न चेयमदृष्टकल्पना ; दृश्यते हि करि - ताद्वेदाद् भोगव्यवस्थेत्याह-तथा हीति । एकस्मिन् ; एकदेहगते जीव इत्यर्थः । न च पादशिरसोरेव तत्र वेदनेत्याह-न हीति । ननु विभो- रणर्वात्मनोऽनवयवत्वादस्तु कल्पितनिबन्धना मोगव्यवस्था ; देहपरिमाणस्य तु संकोचविकासवच्वेन सावयवत्वात् तद्वेदात सत्यैव सेत्स्यति ; अत आह -शरीरेति । नात्मावयवा एव वेदनाभाजःकिं तु आत्मावयव्यधि; अन्यथा अमावयविनो वेदना न स्यात् । अतश्च आत्मावयवयोगेंद दन्योन्यवेदनानुसंधानासंभवात् पादशिरसेवेंदनयोरनुसंधातैको न स्यात् अस्ति चासी । न चासौ परवेदनामेवानुसंधत्ते, ‘ में वेदना ’ इत्यस्मा दसंमेदात् । तस्मादात्मवयव्यपि वेदनाभाकू भी न च तस्य कृत्स्नदेहव्यापिनः सर्वत्र वेदनामाक्त्वम् , अपि तु पादशिरसेरेव ; ततश्च न स्यादनवयव स्वात_पादद्युपलक्षितस्वावयवभेदकल्पितभेदस्यैव वेदनाव्यवस्थेत्यर्थः । अथ नग्नानामप्यनवयवात्मा तदायं पादाद्यवयवाभिप्रायेण ग्रन्थो योज्यः । तथा