पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलकाण्डः 1B इममेवार्थं फलसद्भावप्रदर्शनपुरःसरं प्रपञ्चयति--तथा हीति । परशोछिादिवत् P. ५-8. प्रमाणादर्थान्तरं वा फलमस्तु ।

  • यदाभासं प्रमेयं तत् प्रमाणं फलते पुनः ।

प्राहकाकारसंवित्स्योस्त्रयं नातः पृथक् कृतम् ।” इति बौद्धमतेनानर्थान्तरं वास्तु, सर्वथा सर्वपरीक्षकैरभ्युपगम्यते ; न तु तद्विशेषचिन्तोपयुज्यते ; अतो न दृष्टान्तासिद्धिरिति भावः । प्रमाण शब्दस्य भावकरणव्युत्पत्तिभेदाभिप्रायेणानर्थान्तरमित्युक्तमित्यन्ये । तस्यान वभासं तावन्निषेधति---न चेति । कुत इत्याह---तदिति । तच्चेन्नावमाति, ततः शशशृङ्गवन्नास्त्येव ; अतो न तत्कृतं संवेद्यत्वं भावानां स्यादिति भावः ; यदा प्रदीपकल्पं नेन्द्रियकरूपम् । अतः सत्यपि तस्मिन्ननब- मासमाने तत्कृतं संवेद्यत्वं भावानां न स्यादिति भावः । कस्मात् पुनरज्ञा तमेव फलमिन्द्रियवदर्थं न संवेदथति ? वैषम्यात् ; इन्द्रियं हि फलं जनयति ; जनकं चाज्ञातमपि भवति यथा बीजमङ्करस्य ; फलं तु फलान्तरं न जनयति, अनवस्थानात् ; अतस्तदेव घटस्यानुभवः । स चेत् तदनुविद्धघटप्रतिभासे भात्येव । अन्यदेव ‘घठोऽयम् ’ इति ज्ञानम् , अन्यच्च ‘घटोऽनुभूयते ’ इति ; अतो घटोऽयम्’ इति घठ एवावभाति, न घठानुभव इति चेत; नैवम् ; एवं हि घटे भाति घटानुभवो ममास्ति, न वा ’ इति पृथक् जिज्ञासा स्यात्; न च तथास्ति ; तस्मादनुभवो घठ एवावभातीति । किं चैवं सलानु मवोऽनुभवान्तरेण भयात् ; तथा साति चानवस्था स्यात् । किं च तदनु भवान्तरम् , यतोऽनुक्षवो भाति ? आत्ममनःसंयोगजं प्रत्यक्षमिति चेत्; न तावद्युगपत्कालम्, ज्ञानानामयौगपदृष्टेः) नाप्यनुमवात् पूर्वोत्तरकालम्, प्रत्यक्षस्यातीतानागतानुभवाविषयत्वायोगात; अनुमेयस्वमपि लिङ्गाभावात् प्रत्याख्येयम्; न तावदर्थः सत्तामात्रेण लिङ्गम् , अज्ञातस्यालिङ्गत्वात् ; ज्ञातवेत् , न ; तंबन्धानवसायात; न ह्यतेऽनुभवे सम्बन्धिनि तस्य लिब्रेन सह संबन्धो ज्ञातुं शक्यः । ज्ञाते चेत् ज्ञायते, केन ज्ञाते ? न तावदनेनैव लिङ्गन, इतरेतराश्रयात्; न लिङ्गान्तरेण, तुल्यदोषत्वात् लिङ्ग न्तरवैयथ्याच्च । तस्मात् ज्ञातेन चेदनुभवेन सह लिङ्गस्य संबन्धज्ञानमिष्यते,