पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

12 बह्मसिद्धिव्याख्या तस्वभूतनित्यनिरतिशयानन्देच्छा न रागो भवतीत्युक्तम् । अधुना भवतु सा रागःतथापि न स शान्ततादिश्रुत्या निषिध्यते ; किं तु तत्परिपन्थि- तदरपक्षयिविषयसुरेवेच्छा ; यथा प्रमाणान्तरदृष्टे परमे सार्वभौमे राज्याधु कर्षे ये रागिणः ; दृष्टः परम उत्कर्ष प्रक ष रागित्वेन वा येषां रागिणाम्; यद्वा परेभ्य उत्कर्षः , दृष्टश्चासौ परोत्कर्षश्च, ये रागिणः परात्कषःतत्र तेषामर्थे कामलोमादित्यागात्मक इन्द्रियजयस्तत्प्राप्त्युपायवेनोपदिश्यते तथेहापि 21. भविष्यतीत्याह--अपि चेति । सर्वरागादिनिषेधे सार्वभौमराज्यरागस्यापि निषे धात् तत्राप्यप्रवृत्तेरुपदेशवैयर्थं स्यादिति दोषात् यथा तत्र समीहितात् सार्वभौमराज्यादितरस्मिन् तत्परिपन्थिनि विषये अभिषङ्ग आसची रागाति शयो निषिध्यते, तथेहाप्युत्तमत्रानन्दरागादितरस्मादनुहमविषयसुखसङ्गादु पनतादुपस्थितादपि शमविधिना मुमुक्षोर्निवृत्तिरुपदिश्यत इत्याहतथेति । - एतदुक्तं भवति--ब्रह्मानन्दवर्जमितरत्र रागः शमविधिना निषिध्यते ; तेन तथा ब्रह्मनन्दरागादाप मुमुक्षुप्रवृत्त न शमविधिविरोध इति । चान्यैरपि त्रिभिरिदमुक्तमित्याह--तथा चोक्तमिति । प्रशस्ता; अत्यन्तकामात्मता न न च मुमुक्षोरप्यत्यन्तमकामितास्ति ; हि मुक्त तस्यापि कामऽ स्तीत्यर्थः । एवं शमविधेर्विरोधे परिहते परः पुनरपि ब्रह्मण्यानन्दमाक्षिपति स्यादेतदिति । यद्यानन्दः संवेद्यः ततः कर्तुः संवेदितुरन्यत् कर्म संवेद्य- मिति हेतोः दैतप्रसङ्गः, आत्मनि क्रियाविरोधादति भावः । इतश्च द्वैत प्रसङ्ग - कत्रीिति इत्याह-। क्रियागर्भवात् कर्मकर्तुसंबन्धस्य क्रियायाश्च करणमन्तरेणाभावादिति भावः । कर्तृकर्मभावेन चानन्दबलणोपेंदे घटपठयोरिव सामानाधिकरण्यमपि न स्यादित्याह—आनन्दमिति । अथ शक्रः पठ: ५ इतिवदानन्दवद्भन्नानन्दमित्युच्यते, ततो द्वितीयेन तद्वद्भावद द्वितीयं बलेति न युज्यते ; ततश्चाङनश्रुतिविरोध इत्यभिप्रायेणाह – तद्वत्तयेति । अथानन्दोऽ संवेद्य तत्राह---असंवेदन इति। “विज्ञानमानन्दम्"इति श्रुतावित्यर्थः। इत्युच्यत कथं व्यर्थमित्याशङ्कयाह--पुरुषार्थेत । अत्र समाधानमाह---उच्यत इति । फुले प्रमाणफलमनुभवः, कर्ता च सन्निधेस्तस्येवानुभवित। आस्म, तद्वदित्यर्थः ।