बद्धकाण्डः कामाभावमात्रे चेति । अकामिताविषयोपभोगे भोगात् प्राकू कामस्य प्राग भावः ; भोगावस्थायां परत्र च विषयप्राप्त्युळुद्धस्य कामस्य प्रध्वंसाभावः) अतः कामाभावस्याविशेषात् भोगावस्थातः सकाशात् पूर्वापरे अवस्थे न भिधेयाताम् तस्यामिव तयोरपि सुखी स्यात्; न चैवमस्तीति भावः । द्वितीये पक्षे दोषमाह-कामध्वंस इति । कामध्वंसे च सुवे मोगाव स्थातः सकाशात् परावस्था न भवेत; उभयत्रापि कामध्वंसाविशेषात् मोगावस्थायामिव तदुत्तरकालमपि सुखी स्यादित्यर्थः । अथ भोगावस्थायां सकामः पुमान् ; पूर्वापरयोरवस्थयोस्त्वकामः; तेन कामाभावमात्रे सुखे । भोगावस्थातः पूर्वापरे अवस्थे भिद्यते ; कामप्रध्वंसे च सुखे परावस्था- भिद्यते ; अतः पक्षद्वयोक्तदोषाप्रसङ्ग इत्युच्यते । तदयुक्तम्; एवं ह्याचे पक्षे भोगावस्थातः पूर्वापरयोरवस्थयोः कामाभावमात्रात्मकसुखसद्भावात् सुवी स्यात्; द्वितीये च पक्षे कृमध्वंसात्मकुखुरवसद्भावात् परत्र सुखी स्यात्; भोगावस्थायां तु कामामकदुःखसङ्गात्रात् दुःखी स्यात्; एतच्चानुभवविरुद्धम्। तदेतत्सर्वं साशङ्कमाह--मोगावस्थायामिति । प्रबुद्धः अध्वस्तः कामो यस्य स तथा इति विग्रहः । पूर्वापरयोरित्युपलक्षणम्, परत्रेनि च द्रष्टव्यम् । अकामस्यापि विषयोपभोगात् कामाभिव्यक्तौ तन्निवृत्तिः सुखमित्युक्तम् त :युक्तम्; यतोऽप्राप्तः सुखहेतुत्वेन स्मर्यमाणो विषयः काममुद्वोधयति, प्राप्तश्च तं निवर्तयति; प्राप्तस्यापि विषयस्य कामोद्वोधकत्वे तस्यानिवर्त. कत्वात् ततो विषयात् कामस्य निवृत्तिर्न स्यात् । अतः सैव नास्ति; का सुखं भविष्यतीत्याह- अप्राप्तश्चेति । अप्राप्तभुज्यमानः , प्राप्तो भुज्यमान इत्यर्थः । किं च यदि कामनिवृत्तिः सुखं तत्र यत्र कामस्तत्रावश्यं सुखेन भाव्यम्, उत्पत्तिमच्वेन कामनिवृत्तेरवश्यंभाविस्वान् ; न चैतदस्तीत्याह न चेति । कुत इत्याह--मनोरथेति । मनोरथशतप्रार्थितस्यापि कस्य चिद्विषयस्य कुकलत्रादेरुपभोगदशयां दुःखदर्शनादिस्यार्थः । किं च यत्र विषये सुखमनुभूयते तत्र कामस्य दर्शनात् सुरवधूर्वक एव कम इति निधीयते; अतः काम निवृत्तेरन्यत् प्रभाव सुरवं वस्तुभूतमेष्टव्यामित्याह सुखपूर्वकस्त्विति । अनुभूतः सुरवसद्भावो यस्मिन्निति विग्रहः । ननु यदि सुरवानुभवपूर्वक एव कामः, ततोऽननुभूते स्तनपानावौ भवत कमासं
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४२
दिखावट