पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रसिद्धिव्याख्या अदुःश्वस्येति यदुक्तं तत्राशङ्कयति-यदपीति । विषयप्राप्तिं विना काम एव दुःखम्, अतस्तन्निवृत्तिरेव सुखं भविष्यतीत्यर्थः । तद्दषयति तत्रेति ; तस्मिन्नपि पक्षे । अकामस्य अविद्यमानकामस्य पुंसः पवनप- नीतचिन्तितचम्पकगन्धादिविषयविशेषोपभोगे सति सुखिता न स्यादित्यर्थः।। मा भवत्विति चेत् तत्राह--भवति चेति । मध्यस्थ रागवैराग्ययोर्मध्ये वर्तमान इत्यर्थः । कामनिवृत्तेः सुवस्वव्यभिचारार्थमकामस्यापीत्युक्तम्, तत्र चोदयति--स्यादेतदिति । सुखयतीति सुखो विषयः, ण्यन्ताद्धातोः पच द्यच् । स्वपक्षे साधुत्वमाह--कामनिदृस्या त्विति । अभिरुचिरिति कामस्य विवरणम् । यत्रकामस्य विषयविशेषयोगात् सुखं भवति तत्र तद्दीि का गतिरित्याशङ्क्याह-तत्रेति । सहजो हि रागः सर्वपुंसामस्ति, स तु विषयविशेषेणाविर्भवतीति |धेयक्तम्-कामाभिव्यक्ताविति । सिद्धान्ती प्रत्याह--तदपीति । निबर्हणा हन्तारः । भवन्तीत्यध्याहार्थम् । इममेवार्थ- मभियुक्तोक्स्या द्रढयति- उक्तं हीति । तथा पातजलेनापि वचसा द्रढ यति--भोगति । यथा भोगाभ्यासो विवर्धते विशेषेण वर्धते तथा रागोऽ. पीत्यर्थः । दोषान्तरमाह--विषयदोषेति । कामनिवृत्तेरवस्तुत्वेनाविशेषा दिति भावः । दोषान्तरमाह-समाने चेति । एकस्य प्रार्थितार्थलाभे प्रमोदो महान् भवति, अन्यस्य चारुप इति प्रमोदभेदो न स्यादिस्यर्थः । कुत इत्याह--कामनिवृत्तेरिति । पर इदानीं विशेषमाह--स्यादिति । यस्य कामोऽतिरिक्तो महान् स तन्निवृत्तौ सरवमनतिरिक्तमप्यतिरिक्तमभिमन्यते, न तस्वतोऽतिरिक्तम्, कामनिवृत्तेरविशेषत्; इतरत्र त्वनतिरिक्त कामे अन्यथा अनतिशयितमित्यर्थः । तत्र दोषमाह--तच्चेति । सत्यपि कामाति रेके केशावातेऽर्थे सुखातिरेकाभावात् , असस्यपि कामातिरेकेऽक्लेशादुपगते सुरवातिशयदर्शनात्र कामातिरेकनिबन्धनः सुरवातिरेकाभिमान इत्यर्थः । कामातिरेकाडेतोः प्रयासं क्लेशं कुर्वाणं नरं न तथा लब्धोऽर्थः प्रीणयति, यया विना प्रयासादुपनतोऽप्रार्थितः प्रीणयतीत्यन्वयः । इममर्थं लोकसिडे नानुभवेन द्रढयति--तथा हीति । अनाशंसितमप्रार्थितमित्यर्थः । किं त्रे किं कामाभावमात्रं सुवम्, अथ प्रध्वंस' ? तत्राये पक्षे वोषमाह