सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्या दयश्च तस्य स्वरूपमेव, न गुणाः; तथापि स्तुत्यस्तोतृभेदवदाविद्यासिडगुण गुणिभेदमाश्रित्य गुणसंकीर्तनात्मिका स्तुतिः कृता । अतस्तया स्तुत्या, कायवाङ्मनसां नम्रताखरूपया च प्रणत्या, देहेन्द्रियमनोबुडभ्यः परां तैरसंस्पृष्टखरूपां देवतां द्योतमानां वतः । स्फुरन्तीं पूजयति ; नमसः पूजायाम्” इति क्यचः स्मरणात् स्तुतिपूर्वया प्रणयेत्युक्तं भवति । काय वाङ्मनःप्रहृतालक्षणयेति च प्रणतिमात्रस्येदं लक्षणम् _ । प्रणतिविशेष इह तु एव वाचिकोऽभिप्रेत इति द्रष्टव्यम् । कायमनःपूर्वक एव वायं वाचिको नमस्कार इति ग्रन्थकृद्वचनादेवावस्यामः । तत्रानन्दमित्यादिना स्तुतिर्नम स्याम इति प्रणतिः कृतेति । नमस्कारार्थश्लेदाद्यश्लोकः ततो नमस्कारपूर्वत्व। प्रकरणारम्भस्य ततो बहिरिति कथं प्रकरणप्रतीकवेनानन्दमित्युच्यत इत्याशङ्कयाह-प्रकरणार्थमिति । य एवार्थस्तुत्यर्थ उक्ता गुणास्त एव प्रकरणेन प्रतिपाद्य इत्यर्थात् प्रकरणार्थमपि संक्षेपतः सूचयति ; अतः प्रकरणान्तर्गतत्वाद्युक्तमस्य प्रकरणप्रतीकिवमिति भावः । ननु ‘विप्रतिपत्ति निरासायेदं प्रकरणम् इत्युक्तम्; अतस्तन्निरासोपपत्तिरेवास्य प्रतिपाद्यस्या- द्विषयः, नानन्दादिरित्याशकचाह--विप्रतिपत्तीति । विप्रतिपत्तिनिरासोप- पच्यभिधानं नादृष्टार्थम्, किं त्वानन्दादिरूपे ब्रह्मणि वेदान्तानां प्रामाण्य प्रतिपादनार्थम्; तदप्यानन्दादिरूपं ब्रह्मतवमिति प्रतिपादयितुम् अतो भवत्यानन्दाविरूपं ब्रह्मापि प्रतिपाद्यत्वाद्विषय इत्यर्थः । न केवलं विप्रति- पत्तिनिरासोपपत्तिर्विषयःकिं त्वानन्दादिरपीत्यपिशब्दस्यार्थः । इदानीं प्राथम्यादनन्दादिरूपं व्याख्यातुकामस्तत्पूर्वपक्षे तावत् करोति अत्रेति । आहुरित्यध्याहार्यम् मन्यन्त इति वा व्यवहितमप्यपेक्षयाऽनुषज नीयम् । ततः किमित्याह-रागेति । इतिशब्दो हेवर्थः । रागनिबन्धना याश्च प्रवृत्तेः संसारहेतुत्व ‘कामात्मता न प्रशस्ता ” “ विद्येनमिह वैरिणम्” “यदा सर्वे प्रमुच्यन्ते कामो येऽस्य हृदि स्थिताः । अथ अत्यऽमृतो भवति” इत्यादिश्रुतिस्मृतिभ्योऽवगतम् अनुमानाच ; तथाहि मुमुक्ष रागनिबन्धना प्रवृत्तिर्धर्मिणी, संसारबीजमिति साध्यो धर्मः, राग निबन्धनप्रवृत्तित्वात् त्रीभोगादिप्रवृत्तिवदिति । किं च रागतो मुमुक्षुप्रवृत्तौ यथाचोदितोऽधिकार्यपि ग लभ्यत इत्याह--शान्तस्य निगृहीतान्तःकरणस्य, दान्तस्य निगृहीतबहिष्करणस्थ, आत्मनि विषयें दर्शनम् / तस्मादेवं