सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दलकाण्डः तेषां पुरुषार्थोपयोगित्वम्ऽ बढि प्रमेयतया, न तु प्रमाणतया; प्रमाण तया च पुरुषार्थोपयोगित्वाभावोऽप्रामाण्योपयोगादिह प्रतिपाद्यः, न सर्वथा । नन्वध्ययनविधिरर्थावबोधार्थःन जपार्थः ; सत्यम्; पूर्वोक्तयुक्त्या तु तदसंभवात् वेदान्तेषु जपाथों भविष्यति । नन्वेकस्य विधेः द्वचेष्टत्वमयुक्तम् ; अयुक्तमपि विकल्पवदगत्याश्रयिष्यते । तस्माद्यथा विध्यर्थवादमन्त्राणामध्ययन- विविविषयत्वाविशेषेऽपि यच्छक्नुयात्’ इत्युपबन्धाद्विषिस्तुतिस्मृतयो यथा संभवमुपयोगविशेषास्तथा वेदान्तानां जप इत्यदोषः । अन्ये तु कार्येथे वेदस्य प्रामाण्यं मन्यमानाः “ आत्मा प्रतिपत्तयः इत्युक्ते ‘कथंभूतः’ इत्यपेक्षायांम् ‘इत्थंभूतः’ इत्यपेक्षितप्रतिपत्तव्यारम स्वरूपसमार्पणादुपनिषदां कार्यानुप्रवेशात् प्रामाण्यं मन्यन्ते; तथा सति च विशिष्टविध्यनुपपया विशेषणभूतमात्मस्वरूपमप्यैौपनिषदं सेत्स्यति द्रव्य- देवताविशिष्टयागविधाविव द्रधदेवतम्, अपुरुषार्थवमध्ययनविधिव्यर्थत्वं च न भविष्यति–इति वदन्तः । तेषां तु व्याजमात्रमिदम्; परमार्थतस्तु नोपनिषदामात्मखरूपे प्रामाण्यं तदा सिध्यति, अतत्परत्वादुपनिषदाम् ; एवंभूत अत्मा प्रतिपत्तव्यः ’ इति तदा वचनं व्यज्यते, न ‘एवंभूत आग' इति । ननु कथमनवंभूत एवंभूतः प्रत्येतुं शक्यते ? न, अध्या रोपेणार्थं वाचं धेनुमुपासीत इतवदुपपत्ते अत एव विशिष्टविधे. रपि नात्मस्वरूपसिद्धिः; द्रव्यदेवतमन्तरेण तु यागो न सिध्यतीति युक्तं तदाक्षेप इति वैषम्यम् । प्रतिपत्तिविध्यसंभवाचप्रामाण्यम् । एतच्च वक्ष्यते । तदाह--अन्ये त्विति । विप्रतिपच्यन्तरं चाह । अन्ये त्विति । ‘एक | एवायम्' ” ° अद्वितीयः” इत्यादिवचसां मुख्यार्थपरिग्रहे साध्यसाधनेति कर्तव्यतादिभेदविषयत्वेन कर्मविधिविरोधात् नीलादिभेदविषयत्वेन प्रत्यक्षादि विरोधाच्च देशकालजात्याद्यभेदेन छ: एकोऽद्वितीयः' इत्युपचारेणोच्यत इत्यन्ये मन्यन्त इत्यर्थः । पलक्षणार्थाश्चैता विप्रतिपत्तय उक्तः; इतरा अपि वक्ष्यमाणनिराकरणान् द्रष्टव्याः । तदेवं विप्रतिपत्तिषु तासां निरासा- येदमारब्धमित्याह--तन्निरासायेति किं तदित्याह-आनन्दमितीति । आनन्दमिति प्रतीकेन प्रकरणमिदं निर्दिशति; प्रकरणमित्यर्थः । तत्राद्य श्लोकस्य तात्पर्यमाह--परामिति । यद्यप्वंद्वेनिनां निर्गुणं ब्रह्म ; आनन्दा 1A