पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बलसिडिव्याख्या फलमिव प्रयाजादेःअतो बलज्ञानमस्य प्रयोजनम् । तथा सति ब्रह्म । विषयःतेन चोपायोपेयलक्षणः संबन्ध इत्यप्यर्थात् सिद्धमं; ततश्च विषय प्रयोजनसंबन्धेः संपन्नमिदं प्रकरणमारब्धव्यामेत्यमिप्रायः । नन्वत्रापि मम मीमांसाशास्त्रमङ्गमस्येव ; अतः किमनेन पुनरुक्तप्रायेण प्रकरणेन ? सत्य मस्ति; किंतु तत्र नानाप्रदेशे संक्षेपतश्चार्थसिद्धं च सिद्धवच्च यदुक्तं तदनैकत्र प्रदेशे विस्तरेण साक्षात् सोपपत्तिंकं कथ्यत इति पुनरारम्भः । तत्राद्यां विप्रतिपत्तं तावदाह--के चिदिति । कुत इत्याह- आत्मनइति । विज्ञानात्मा वा वेदान्तैः प्रतिपद्यःपरमात्मा वा; तत्र विज्ञानात्मनः स्तावदहंप्रत्ययसिद्धत्वे सति तेषां वेदान्तानामनुवादकत्वादप्रामाण्यम्; स्वप्रकृतत्वेऽप्यात्मनः स्वतः सिद्धत्वादनुवादकत्वं वेदान्तानामविशिष्टम् प्रमाणान्तरसिद्धत्वं तु परमतपन्यासप्रक्रमादुक्तम् । परमात्मनस्तु प्रमाण न्तरेणासिद्धत्वे संबन्धिन्यगृहीते संबन्धग्रहणानुपपत्तेस्तेन सह त छब्दस्य वाच्यवाचकलक्षणसंबन्धाग्रहदपदार्थत्वे सत्यवाक्यविषयत् ; यतः पदार्थ एव वाक्यार्थ इति मतम् । ततश्च वेदान्तानामनवबोधकत्वादेवाप्रामाण्य मित्यर्थः । अथाहंप्रत्ययसिद्धमप्यात्मानं निरस्तसमस्तविशेषमवगमयतार अस्थूलमभण्वऽखम् " इत्यादिवाक्यानामननुवादकत्वात् स्थूलादि पदाः ननुश्च ब्रह्मादिपदानां च बृहस्वाद्यर्थान्वयेन यथायथं खायें संबन्धग्रहण संभवात् पदार्थत्वे सति वाक्यविषयत्वं चेदुच्यते, तथापि तेषां प्रवृत्ति निष्ठयुपदेशेऽसत्यपुरुषार्थत्वादप्रामाण्यम् । ननु परिच्छेदलक्षणं प्रामाण्यम न तु पुरुषार्थोपयोगित्वलक्षणम्; पुरुषार्थोपयोगिनामपि घटादीनामप्रामाण्याव पुरुषार्थानामप्यनपेक्षितवस्तुज्ञाननां प्रामाण्याच ; अस्ति परिच्छेदकर वेदान्तानामिति । कूथमप्रामाण्यम् ? उच्यते-नानपेक्षितवस्तुज्ञानतुर्यमु" निषदां परिच्छेदमात्रेण प्रामाण्यम्, किं तु पुरुषायपयोगिवेन । न तुभ्यम सांप्रदायिकत्वादध्ययनाविधिविषयत्वाच; न हि विधिः पुरुषार्थ नुपयोगिने पुरुषं प्रेरयति ; पुरुषायपायं च बोधयतः प्रमाणस्य पुरुषार्थों योगता; व्यवहारल पुरुषार्यपायः; स च प्रवृत्तिनिवृयात्मा; ते चेन्न विनि वेवास्ताः, नैषां यथाप्राप्तुं प्रामाण्यमस्तीत्यप्रामाण्यामिधानम् किमर्थं तर्हि तानध्ययनविधिरध्यापयति: जपार्थमिति ब्रूमः । नन्वापनं तं