ब्रह्मसिद्धिव्याख्या यदधीनं सुरेन्द्राणामप्यारम्भसमापनम् । गणाधिपतिसंज्ञे तद्वस्तु मेऽस्विष्टकृत् सदा ॥ प्रकरणारम्भे विननिवृत्तये परामत्र च प्रतिपाद्यतयाभिमतां देवतां स्तुतिपुरःसरं नमस्यति–आनन्दमिति । कार्यारम्भे नमस्कारक्रियायामवि गतसदाचारः प्रमाणम् । न च जैमिनिना नमस्कारो न कृत इति विगानमाशङ्कथम्; न ह्यकरणं विगानम्, अपि तु निन्दावादः । तथा होलाकादीनां नियतप्राच्यादिकर्तृकाणामपि प्रामाण्यमिति स्थितम् । स चात्र नोपलभ्यते । कुत एव वा जैमिनिनाप्यनिबद्धया वाचा मनसा च नमस्कार इति विशिष्टत्वादनुमिमीमहे । स च कार्यारम्भे तत्समाप्तिफलाभि संघानेनैव शिंटैराचर्यते ; तेन विशिष्टफलाया एव स्मृतेस्तत्फलैव श्रुति स्ततः कल्प्या; अतो न विश्वजिन्यायेन खर्गफलप्रसङ्गः । नमस्काराश्च घर्मविशेषःततो विन्नहेतोरधर्मस्य क्षयःततो हेत्वभावाद्वित्रानुत्पचे प्रारिप्सितकार्यसमाप्तिरित्येवं कार्यसमाप्त्यर्यता नमस्कारस्य । स्तुतिपूर्वकश्र नमस्कार वीर्यवत्तरः; अतस्तयैव कुत इति । तत्र ब्रह्मज्ञानाय प्रकरणमिदमारम्भणीयम् ; तच्च वेदान्तेभ्य एव सिध्यति ; अतः किमनेनेत्याशङ्क्य ‘वेदान्तेषु’ इत्यादिना ‘आरभ्यते’ इत्यन्तेन श्रोतृजनप्रवृत्त्यर्थं प्रयोजनमाह । वादिविप्रतिपत्तिसमुत्थाप्रामाण्यादिसंशय- तिरोहितशक्तयो वेदान्ता न बक्षज्ञानं कर्तुमीशते; अनेन तु प्रकरणेन समस्तसंशयनिरासे कृते सत्याविर्भूतशक्तयस्त एव बल ज्ञापयन्ति ; ततश्च कर्मविधीनामिव घर्ममीमांसा वेदान्तानामपि बक्षज्ञानं कुर्वतां विप्रतिपत्तिनिरा करणद्वारेणेदं प्रकरणमङ्गम् यच्च प्रधानस्य फलं तदेवाङ्गस्य, वीपूर्णमातः
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३३४
दिखावट