सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मलकॅण्डः विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्” इति श्रुत्योच्यते । न चानन्दरागात् प्रवर्तमानः शान्तो मवती त्यर्थः । ननु शान्तत्वं चेदनुपपन्नं पूर्वं दान्तोपन्यासोऽपि व्यर्थः । न व्यर्थः; स हि शान्तस्वस्य शीतत्वज्ञापनार्थःअनेकपदोपादाने हि श्रुति नृद्धौ संनिधीयते ; अतः शान्तत्वस्य श्रौतस्वज्ञानं भवति । यद्वा निगृही- तान्तःकरणन्न भवति, ततस्तन्मूलत्वात् बहिष्करणप्रवृत्तेर्दान्तोऽपि न स्यादेव; शान्तग्रहणं तूपलक्षणार्थं मन्तव्यम् । ननु ‘‘विज्ञानमानन्दं बल इति श्रुतस्यानन्दस्य प्रयोजनवशादुरसगों न युक्तः; न हि प्रयोजनवशा प्रमणव्यवस्थोचिता । बाढम् न प्रयोजनवशादानन्दश्रुतिमुत्स्रजामः; किं तु मुक्तिश्रुत्यन्तरबलादेव तामन्यथा नयामः ; नचात्यन्तमुत्सृजाम इत्यदोषः। नन्वनानन्दात्मके ब्रह्मण्यपुरुषार्थत्वात् प्रवृत्तिर्न स्यात; प्रवृत्तौ चास्य न ने च्छास्ति, अनिच्छोः प्रवृच्यनुपपत्तेः; सैव च रागः ; अतः कथं शान्तता तवापीत्याशङ्कय परः स्वपक्षे प्रवृत्तिमधिकारिणं च शान्तं दर्शयति तस्मादिति; यस्मादानन्दरागारप्रवृत्तावेवं दोषस्तस्मादित्यर्थः । सकलमाध्या- त्मिकादिभेदभेनं दुःश्वजातमतिक्रान्ते ब्रह्मतवे तेभ्य एव दुःखेभ्यः उद्विग्नः सुवेभ्यश्च हैरण्यगर्थेभ्यः क्षयादिदोषपरिभावनया. वेगतस्पृहः प्रवर्तमानो मुच्यत इत्यर्थः । न हि दुःखनिवृत्तीच्छा रागः किं तु सुरखेच्छ। ; दुःखनिवृध्यर्थमापि लोके प्रवत्तिर्द्धष्ट। ; अतः प्रवृत्तिरधिकारी चास्मस्पक्षे घठत ६ति भावः । ननु यदि नानन्दात्मकं ब्रह्म का तर्हि “विज्ञान- मानन्दम्’ इत्यादिश्रुतीनां गतिरित्याशङ्कयाह--आनन्देति । सकलस्याध्या त्मिकादिभेदभिन्नस्य त्रिविधस्यातिक्रममभावमाहुः गमयन्ति ; लक्षणयेत्यर्थः । सुरवं हि दुःखाभावाविनाभूत: यत्रापि युगपत् सुरवदुःखे तत्रापि सुरवद्वरज दुःखभावेमाविनाभूतम् । अनुपपन्नं च ब्रह्नणि पूर्वोक्तयुक्त्या । तस्मादनन्द श्रुतिषु लक्षणैव न्याय्या । के चितु मुरवे दुःखाभावे च सुरवशब्दस्य प्रयोगादक्षादिशब्दवदनेकार्थत्वमिच्छन्ति ; तदयुक्तम्, एकार्थत्वेनैवेतरत्र लक्षणया प्रयोगोपपत्तेरभिधानशक्तिकल्पनानुपपत्तेः । निरूढा चैषा लक्षण, नास्मत्कल्पितेत्यभिप्रायेणाह--दृष्टो हीति । सुखशब्दस्य दुःरत्वनिवृत्तौ प्रयोगे सिद्धे तत्पर्यायस्यानन्दस्यापि तत्र प्रयोगः सिद्धो भवतीत्यमिप्रायेण