सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
ब्रह्मसिद्धिकारिकाः

तस्मादिन्द्रियदोषाणां सामर्थस्य विभागतः।
भ्रमेषु नियमो दोषदग्रहे न भ्रमे यमः ॥ १३१ ॥
विशेषस्मरणान्नापेि मृतोऽपि तदग्रहः ।
देशकालविशेषाच्च । म्भूतं प्रविविच्यते ॥ १३२ ॥
अनेकदेशाधिगतं विविक्तं न पुनस्ततः ।
स्मृतिरित्यपि विज्ञानं स्मृते (न्यदुदाहृतम् ॥ १३३ ॥
न च मानफलाद्भिन्नत्तत् सिध्यति फलदृते ।
सति स्मतिविवेके च प्रत्यभिज्ञानाविभ्रमः ॥ १३४ ॥
अथासंनिहितो व्यथे वैद्यः संनिधिमतया ।
अविविक्तमृतेरेवं विपरीतार्थता भवेत् ॥ १३९ ॥
मनसोऽमुषघाताश्च नासंनिध्यपरिग्रहः ।
दोषो ग्रहणे हेतुरिन्द्रियाणामुदाहृतः ।। १३६ ॥
प्रवृत्तिनिधमो न स्यादिति चात्र निवेदितम् ।
सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ॥ १३७ ॥
सर्वात्मनाय ज्ञानेन केनचिन्न हि गूयेत । ।
तथाज्ञातविवेकस्य द्विचन्द्रादिविपर्ययात् ॥ १३८ ॥
अनुवृत्तिमतः पश्यन् कस्य स्वास्मापनिह्नुते ।
प्रसक्तप्रतिषेधात्मा ख्यातिः प्राप्त प्रकल्पते ॥ १३९ ॥
नाग्रहः प्रापकोऽभावः प्रापिका विपरीतधीः ।
ये च ख्याती तु रजतचक्षुःसंयुक्तवस्तुनोः ॥ १५० ॥
नायं तदुपनीतार्यप्रतिषेधोऽवगम्यते ।
न चाग्रहणमेवैषा प्रतीतिरपबाधते ॥ १४१ ॥
सर्वा आग्रहबाधेन जन्म म स्यातथेडशी।
विवेकविज्ञानमिदं न प्रसक्तनिषेधशीः ॥ १४२ ॥
इति ब्रुवाणो वैयात्पात् स्वां प्रतीतिमपह्नुते ।
न क्रमे यौगपद्ये वा विवेकमतिरीदृशशी ॥ ११३ ॥