सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नियोगकाण्डः ३

भूमौ निखातं निर्लिङ्गमवेधानुपपन्नकम् ।
नष्टद्रधृकमस्येति यत्सर्वमितियोग्यताम् ॥ ४० ॥
असत् प्रमेयं च तथा यथैव स्थापयत्ययम् ।
अमितं हि तथा कंस्मात्तथा न पुनरन्यथा ॥ ४१ ॥
अमित्वा कण्ठकाभावं चरणं न्यस्यते कथम्।
नान्यग्रहात्तस्य भावे पुरस्ताच्च प्रसङ्गतः ॥ ४२ ॥
जिज्ञासा न प्रवर्तेत यदि संवित्त्युमावतः।
प्रमाणविषयत्वस्य नोपयोगोऽत्र दृश्यते ॥ ४३ ॥
असद्वोधेऽनन्यहेतुभानेन शुपयुज्यते ।
अथ यत्र प्रवृत्तिः स्यात्तत्र केवलसंविदः।। ४४ ॥
जिज्ञासेत न सूक्ष्मार्थे कैवल्यं संविदो यदि ।
केवलो विषयो नेष्टो रूपोन्मिश्रेऽपि तद्यतः ॥ ४१ ॥
विशिष्टस्य च नास्त्यन्यदन्याभावाद्विशेषणम् ।
नास्तीति धीव्यबहती विषयं कमुपाश्रिते ॥ ४६ ॥
मानाभावं यदि क्षुण्णं मेयभावस्य तत्र किम् ।
अग्रहेऽसङ्गहभ्रान्तिरभावव्यवहङ्गमः ॥ ४७ ॥
अभावे च व्यवहतेरढौ ध्वान्तदृष्टिवत् ।
इत्थं भवेत् सुषुप्तादौ त्रैलोक्यामावदृग्भ्रमः ॥ १८ ॥
अपरिच्छिन्दतः किंचिद्विश्रमश्र न युज्यते ।
आरोपविषयारोप्ये नाजानन् रजतभ्रमी ॥ ४९ ॥
नाभावभिन्ना व्यवहृत्तदभावश्च धीपदे ।
तमोडष्टिस्तु भूच्छायामालोकाभावमेव वा ॥ ५० ॥
आलम्बते न त्वदृष्टाविष्टो दर्शनविभ्रमः।
अस्तु वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम् ॥ ११ ॥
तस्मिन् मितं वस्तु सर्वं भवत्यागमगोचरः।
न च सापेक्षता नस्मिन्नन्तरार्थविभिन्नताम् ॥ ५२ ॥