प्रमाणान्तरसंभेदो व्यपेक्षानो न संभवात् ।
अपौरुषेयता तेन पौरुषेयत्वमेव च ॥ २७ ॥
अनपेक्षव्यपेक्षत्वनिमित्ते वर्णिते बुधैः ।
भूतार्थमपि सापेक्षी नातोऽपुरुषबुद्धिजम् ॥ २८ ॥
अथ संसर्गभाजो नो पदार्थाः क्रियया विना ।
किमायातं विधेः सापि त्वस्त्यादिः सुळभा क्व न ॥ २९ ॥
न च मानावगम्यत्वमस्तीतिविषयो मतः ।
मानदेव यतो बुद्धिरभूदस्ति भविष्यति ॥ ३० ॥
धूमादिना मिते हि स्याद्दद्यादाविंयमन्यथा ।
मिर्वतोत्तरकाले वा भवन्ती न खलु त्रिधा ॥ ३१ ॥
खसंबन्धितय मानमथ वस्त्वधिगच्छति ।
तथापि नैव भिद्येत नेत्थं चान्यत्र्यपेक्षता ॥ ३२ ॥
अग्न्यमनावगम्यत्वमथ लिङ्गात् त्रिषेक्ष्यते ।
स्याडिङ्गमपि सापेक्ष तत्सिद्धस्तत एव चैत् ॥ ३३ ॥
नैरपेक्ष्यं यदि न तद्देदे दण्डैर्निवार्यते ।
तत्संभवो लैङ्गिकेऽर्थे बुद्धवाक्यार्थवन्न तु ॥ ३४ ॥
अत्रेति साक्षात्करणाभ्युपायादसमञ्जसम्।
मेयत्वमेव सत्ता चेन्माने त्रिविधता कुतः ॥ ३१ ॥
तत्संबन्धादतो नाथं त्रैविध्यमवकरपते ।
वर्तमानप्रमायोगः सत्तासत्ता विपर्ययः ॥ ३६ ॥
मते यदि ततः प्राप्तमसत्त्वं स्मृतिगोचरे ।
प्रमाणयोगमात्रं चेत् सत्तासत्ता विपर्ययः ॥ ३७ ॥
प्राप्ता प्रमितनष्टेन घटेन मधुधारणा ।
प्रमिते च न जिज्ञासा पुनः स्यात् सदसवयोः ॥ ३८॥
अथ प्रमाणयोग्यत्वं सर्वं नष्टाच्च तच्च्युतम् ।
स्मर्यमाणे प्रचलितं क्वचिदित्यप्यसुन्दरम् ॥ ३९ ॥
|