सामग्री पर जाएँ

पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
नियोगकाण्डः ३

न मानान्तरलब्धार्थतया । तस्यावबोधकम् ।
न तत् सापेक्षमेषा चेदभिप्रेतानुवादता ॥ १४ ॥
सापेक्षतायाः को हेतुः शुद्ध सिद्धार्थता यदि ।
प्रमाणान्तरसंभेदस्तद्वयपेक्षणकारणम् ॥ १५ ॥
नृषीप्रभवे नास्ति भूतार्थेऽपि स वैदिके ।
न च संभवमात्रेण तदपेक्षावकरुपते ॥ १६ ॥
विशेषो न iहे गभ्येत सापेक्षत्वे तदा तयोः।
प्रत्यक्षानुमयोरेवं वृत्तेरन्योन्यगोचरे ॥ १७ ॥
परस्परव्यपेक्षत्वमविशेषं प्रसज्यते ।
स्यादक्षमपि सापेक्षे यदक्षान्तरगोचरे ॥ १८ ॥
असंभवादौषधादिनियोगस्यानपेक्षता।
लौकिकस्य प्रसज्येत नरप्रत्ययपूर्वकः ॥ १९ ॥
विनियोगस्तत्र तेन व्यपेक्षा वैदिके पुनः।
अबुद्धिपूर्वकः सोऽपीत्यनपेक्षत्वमुच्यते ॥ २० ॥
मृबुद्धिपूर्वतैवेत्थं हन्तापेक्षानिबन्धनम् ।
मानान्तरासंभवेऽपि ततः सापेक्षता यतः ॥ २१ ॥
वेदे नियोगनिष्ठत्वं विनियोगप्रधानता।
लोके वेदे न व्यपेक्षा तङोके च व्यपेक्षणम् ॥ २२ ॥
न शब्दमात्रसामथ्र्यप्रविभागोऽयमीदृशः ।
लोकावगतसमयैः शब्दो वेदेऽपि बोधकः ॥ २३ ॥
अथ मानान्तराज्ज्ञात्वा प्रयुङ्क्ते पुरुष वचः ।
अर्थे तत्तेन तन्निष्ठमितरत्वन्यथा स्थितम् ॥ २४ ॥
मानान्तरव्यपेक्षत्वात् संभव्यन्यप्रमाणकः ।
हन्तस्य गोचरो नास्मादपेक्षास्य प्रमान्तरे ॥ । २५ ॥
तस्मान्मानान्तराङ्गत्वा परस्य प्रतिपत्तये ।
बचः प्रयुङ्क्ते पुरुषो नाकस्मात् तेन तद्भिरि ॥ २१ ॥