पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
132
ब्रह्मसिद्धिः

विद्यस्य तत्संस्कारमात्रादीनं छायामात्रेणैव विषयेषु । तथा च 'तद्यथा हिनिर्जीवयनी वरुमाऊँ मुता' प्रत्यस्ता शयीत एवमेवेवं शरीरम्’ इति विदुषः शरीरे ऽस्यां वर्शयति; यतो न मूलकारणतुल्यफलः’ संस्कारः कम्पादिवदेवे; न च’ चिरकालानुवृत्तिःअश्यालस्थायित्वात्संस्कारस्य, तद्वदेव च न तन्निवृत्तये हेत्वन्तरमपेक्ष्यते, तच्चदर्शनादेव क्रमेण तस्यापि निवृतेः, स्वयमेव वा । सा चेयमवस्था जीवन्मुक्तिरिति गीयते । आरब्ध कार्यकर्मसंस्कारक्षयश्न देहपातादेव गम्यते ; तदनुवृत्तौ” देहपात एव न स्यादिति न देहपातोत्तरकाले तद्विपाकस्य च्छायामात्रेणापि दर्शनं शक्यते । येन हि कर्मणा यच्छरीरमारब्धं तत्रैव तद्विपाकशेषाभासः । अनारब्धका- यषां त्वलब्धवत्तीनामेव निवृत्तत्वान्नास्ति तत्संस्कारः ; लब्धवृत्तिकारण- संस्काराद्धि कार्यलेशानुवृतिः । न खलु भयेऽप्रतिलब्धवृत्तावनुपजनितक- पादौ तत्संस्कारान् कम्पाद्यनुवृत्तिः । तस्मादनारब्घकार्याणामलब्धवृत्तित्वादा रब्धार्यसंस्कारक्षयस्य च देहपातादवगमाद्विदुषः पतितेऽस्मिन् शरीरे कैव श्यमवश्यंभावि । अत्र च लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसं स्कारादेव व, "तथोभयसंस्कारादेव " वा कम्पाद्यनुवृत्तः; भयसकारा भयम् , ततः कम्पादयः; कम्पादिसंस्काराद्या झम्पाद्यनुवृत्तिः । सर्वथा भवात करणविगमेऽपि कार्यशेषानुवृत्तिः , संस्कारात् । अतो लब्धवृत्ति कर्मसंस्कारात्तद्विपाकसंस्काराद्वा विदुषेऽपि शरीरस्थितिः । तदुक्तं तन्त्रान्तरेऽ- किं –“ तिष्ठति संस्कारवशाच्चकन्नमवबृतशरीरः ” इति ।

ये तु मन्यन्ते–प्रवृत्तभोगानां कर्मणां प्रवृत्तवेगस्येषोरिव चक्रस्येव वा न शक्यः प्रतिबन्धः, अतो भोगेन क्षयप्रतीतेति तदसत्;


1 B¢h 4-4-.

2 त–B,

3

4 A and E omit च.

5 व-A and B.

6 ता-B.

7 मयूवे-B.

8

9 o omit० च.

10 तथाभय--B and O.

11 A and B omit एव.

12

13 Sh-He. 67.

14 com = कर्म.

15 क्ष