कार्यकर्मक्षयं भोगेन प्रतीक्षत इति । तत्र कस्यचित् तत्कालोऽपवर्गः कस्यचित् फियांश्चित् सेपः; यथा रज्वां सर्पसमारोपसमुत्थभयज- न्मानो वेपथुप्रभृतयस्तवदर्शनादप'वृत्ते भये कस्यचित्तदैव निवर्तन्ते, कस्यचित् ‘कियन्तंचित् कालमनुवर्तन्ते, तत्संस्कारात् ; तथा सर्वकर्मक्षयेऽपि भुज्यमानविपाकसंस्कारानुवृत्तिनिबन्धना शरीरस्थितिः, कुलालव्यापारविगम इव चक्रभ्रान्तिः ।
नन्वेवं ब्रह्मविदोऽपि चेद्भोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तर काल'मप्यनुवर्तेत ; तत्र विदुषोऽपि नावश्यंभावि कैवल्यं स्यात् । तथा च' 6 & 6तावदेव चिरम् " इति श्रुत्या विरोधः । अथोच्छेदादविद्यया नानुवृत्तिः, क्षणमपि न स्यादिति स एव विरोधः ; सैषोभयतःस्पाशा रज्जुः । उच्यते ; यथा भयविगमे लब्धाश्वासस्यापिं संस्कारमात्रात् कम्पाद्यनुवृत्तेः न च मयाविगमेऽप्यनुवृत्तिरित्येतावता चिरकालाय भवति ; न च मूलकारण तुल्यफलः सस्कारः ; न च स्थायी ; अन्यथा कम्पादीनां निवृत्तिरेव न स्यात्; न च भयविगमहेतोस्तवदर्शनात्तान्निवृत्तये हेत्वन्तरमपेक्ष्यते ; 'तत एव हि’ स क्रमेण निवर्तते, खयमेव वा' कुलालचक्रभ्रान्तिसंस्कारवत् तथा निवृत्तायामविद्यायां कर्मसु चाविशेषेणारख्घकायैथ्वीनारब्धकार्येषु च निवृत्तेष्वारब्धविपाकसंस्काराच्छरीरिणं भोरूरमिव चायमात्मानं प्रत्येत्या- भासमात्रेण विद्वानपि, न त्वविहनिवारूढाभिनिवेशः ; स चायमीदृशः स्थितप्रज्ञो वर्णितः बीतकाम आत्मरूपसंतुष्टो दुःखेषु च्छायामात्ररूपेषु तवदर्शनादभिनिवेशाभावात् कृत्रिमेभ्य इव व्याघ्रादिभ्योऽनुद्विग्नमनाः सुखेषु च कृत्रिमरमणीयेष्विव" "विगतस्पृहः । यथा रवश्वविदुषो मृद्दारुरचिते
यादौ विषये छायामात्रदर्शनमभिनिवेशविकलम्, तथा विदुषः क्षीणकर्मा
1 B omits कर्म. 2 प-A and B. 3 कंचित्-A and B. 4 कालेऽप्य-A. 5 o omit च. 6 Chand. 8-14-2. |
7 अत एव हि-B. 8 o omits हि. 9 B Bomits अनारब्धकार्येषु च निवृतेषु 10 ण-B. 11 य इव–c. 12 A and B omit वि. |