पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
113
नियोगकाण्डः

तुल्यमेतत् समाप्तं च वाक्यं वाक्यान्तरानुगम् ॥ ९४ ॥
'नियोगानुप्रवेशोऽस्ति तावद्यदि वृथान्यथा ।
तवावबोधविध्यंशस्तावदेवें समुद्रतः ॥ ९१ ॥

अथ मन्यते –वस्तुस्वरूपमानज्ञानं कर्तव्यताज्ञानराहितं प्रवृत्तिनिवृत्ति शून्यमनर्थकम्; प्रवृत्तिनिवृत्तिप्रयुक्ता हि वाक्यप्रवृत्तिः; अतोऽर्थवच्वाय विधिः; अन्यथानर्थक्यम् । तत्रोच्यते—प्रतिपत्तिविधावपि तुल्यमानर्थक्यभL; तथा हि –‘एवंविधः प्रतिपत्तव्यःइत्यपि' न “तत्स्वरूपज्ञानातिरिक्त काचन प्रवृत्तिनिवृत्तिर्वा । अथ स्वरूपज्ञानमेव प्रयोजनम्, तत् स्वरूपमात्रनिष्ठेऽपि तुरुपम् । अथ प्रतिपत्तिविधिः “ 'प्रज्ञां कुर्वीत " + 'स क्रतुं कुर्वीत ” ६« °आत्मेत्येवोपासीत इत्यधिकारविघिन्यपेक्षितप्रज्ञोपासनाविषयसमर्पणेनार्थ वान्, नानवगतविषयस्वरूप प्रज्ञा शक्येति; स्वरूपनिष्ठमर्षि वचस्तथार्थ वत्; तस्य समर्पणे सुतरां सामर्थम् । नन्वेवमस्य स्वरूपनिष्टता हीयते । नियोगानुप्रवेशिनः । खगतनियोगनिष्ठमपि तर्हि तन्न, नियोगान्तरानुप्रवे शात् । अथ मतम् - स्वार्थपर्यवासितमेव वाक्यं वाक्यान्तरेणैकवाक्यतामु पैति; सोऽयं प्राकरणिकः संबन्ध उच्यते ; अन्यथा वाक्यलक्षण एव स्यात् । एतदपि समानम्; नियोगानुप्रवेशेऽपि न खरूपनिष्ठता हीयते । नन्वस्ति नियोगानुप्रवेशःअन्यथा आनर्थक्यात्; कामम् तस्वप्रतिपत्ति विधिस्तु तावदनर्थक्यान्निराकृतः 'विधेर्धिनपि तस्माच्छब्दात्तत्त्वावबोध सिडे:

ननुत्पत्तिविधिः कर्मरूपबोधे व्यवस्थितः ।
यथा तत्वज्ञानविधिस्तथा बोधेऽवतिष्ठताम् ।। ९६ ॥
अधिकारात् प्रवृत्तिश्च मता कर्माधिकारवत् ।


1 नियोगोऽनु

2 मन्यसे--A and B

3 विधे-B

4 A and B omit आपि

5 A and B onit तत्ः

6 Brh 4-4-21

7 child. 3-14-1

8 B¢h. 1.4-1

9 मय्यस्य--A and B

10 हीयता–B

11 A omits विधेः ; विधि-B