क च प्रमाणमेषोऽर्थे न यागादौ स्वशब्दके ॥ ८७ ॥ |
न च नियोगस्य प्रमेय निरूप्यते । न तावद्यगादयः प्रमेयाःतेषां यज- त्यादिशब्दविषयत्वात् । नापि तेषां प्रमाणान्तरस्यागोचरः संसर्गः; तया हि--अविधि'cवपि लौकिकेषु वाक्येषु श्रोतुरनधिमतोऽपूर्वः संसर्गः प्रती यते ‘ब्रालण पुत्रस्ते जातः’ इत्यादिषु । अथ फलसाधनसामथ्र्यं प्रमेयमु- च्यते ; न किल कामिनो नियोगोऽकामोपाये धात्वर्थेऽवकल्पते ; अनुपा यस्वे हि तस्य न स कामिना कृतः स्यादिति । तदप्यसांप्रतम् न हि शब्दस्य तत्र कश्चिदपराधःयेन तमतिक्रम्यान्यत् प्रमाणे मृग्यते । प्रमा णान्तरापेक्षता प्रत्युक्ता । अनन्तरफलदर्शनेन तु विरोधो' नियोगगम्येऽपि तस्मिन्नविशिष्टः । आनन्तर्यस्याप्रमाणार्थत्वेने तदभावः शब्देऽपि तुल्यः ॥ अथ वा शब्दस्तत्र न दुष्यति फलसाधनसामथ्र्ये, नियोगस्तु दुष्यत्येव ; न हि ततः पुरुषार्थसाधनावबोधः संभवति । तच्चेदं विधिविवेक भावना विवेकाभ्यामवगन्तव्यम् । तस्मात् संबन्धज्ञानापेक्षस्वेन पदार्थान्तरैः समा नत्वाद्विषायकार्थस्य न शक्यं विशेषेण वक्तुम्--तनिबन्धनः पदार्थसं सर्ग इति । सर्व एव तु पदार्थाः संबन्धयोग्यैः कारकादिभावैः पदेभ्यः
प्रतीताः संनिकर्षेण संसृज्यन्ते, यतो लोकाच्छब्दव्यापारावगमः । लोके च
1 प्रदाशताः--A and B 2 प्रयुक्त्या हि-0 3 व्याहते जने -C; व्यापृतिर्जने-B 4 धिकेष्वपि--A and B 5 र्वसंसर्गः--A and B |
6 K omits तत्र 7 विरोधो हि-A and B 8 र्थः-g 9 तदर्थनिबन्धनः-A and B 10 पदार्थसंसर्गयोग्यैः -B |