पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
108
ब्रह्मसिद्धिः

यनूक्तम्-वक्तृज्ञानाधीनार्यसिद्धिरिति, तत् तन्मिथ्यावे तदसंभवे वा प्रमाणप्रतीतिबाधनेऽर्थप्रतीतेरपि बाधनात् तदबाधे चाबाधात्”; न तु वचसोऽ थं न विषयः ; अन्यथा प्रमाणान्तरपरतन्त्रं पुरुषवचोऽथे सापेक्षमित्येतदेव न स्यात्; न हि यो यस्याविषयः स तत्र सापेक्षोऽनपेक्षो बा; तथा च' « प्रामाण्यापनं तु स्याद्वक्तुधीहेतुसंभवात् ” इत्युक्तम् । स्थापनमबाधः न तु प्रामाण्यमेव । तच्च वक्तृधीहेतुसमवाद्दक्यस्य, न तु वक्तृधिय एव ; शब्दस्य चार्थेन संबन्धः, न तु ज्ञानेन ; एवं युक्तम्—« औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः” इति । अर्थग्रहणमत्र ‘अथसंस्पर्श °शब्दः, ज्ञानेनैव शब्दस्य संबन्धः ’--इति पश्यतां निराकरणाय । तस्मादन्योन्ययोग्यता शब्दार्थयोरेव संबन्धः । न चाप्रमितेऽर्थे स शक्यो ग्रहीतुम् ; प्रमिते प्रमाणान्तराविषय त्वमुक्तम् । न च "प्रतीतिमात्रे, अर्यवत्याः प्रतीतेः “ स्मृतिप्रमाणयोरन्य तत्रान्तर्गमात् ; आनर्थक्ये केन संबन्धः ? यदि च शब्दप्रतीतिव्यतिरेकि एयापि प्रतीत्या स विषयीक्रियतेऽप्रमाणात्मिकयापि, भवत्ययमशाब्दस्यापि ज्ञानस्य गोचर इति प्रमाणान्तराशङ्का केन वार्यते ! न च प्रमाणान्तराव". गम्यता शब्दार्थमनुप्रविशति, यतो नान्वयमात्रेण व्यतिरेकमात्रेण वा शब्दार्थः; सति श्वन्यस्मिन् प्रयोजकेऽर्थे यस्याभावे न प्रयोगः सोऽपि तस्य शब्दस्य प्रयोजक इति गम्यते, "यथा सत्सु हैवन्तरेषु यस्याभावे न कार्यं सोऽपि हेतुर्गम्यते । इदं च श्रेयोहेतुविवक्षायां लिङादेर्दर्शनात्, तदभावे तत्यपि प्रमाणान्तरगम्यत्वेऽदर्शनाच्चैयोहेतुत्वं तावच्छब्दार्थः । प्रमाणान्तर गम्यत्वे यद्यपि दर्शनम्, तदभावे च यद्यप्यदर्शनम्, न तु श्रेयोहेतुत्वे सति प्रमाणान्तरगम्यताया अभावात्; तत्र संदिग्धो व्यतिरेकः -उभयाभावेs.

प्रयोगात किनिबन्धनोऽप्रयोग इति । तत्र श्रेयःसाधनतायाः प्रयोजकत्व


1 A and B

2 तत्र--B and O

3 बाधनात् -A

4 0 omits

5 Sloa-vertits page 98

6 Mim-SH. 1–1-5

7 प्रइनं हि तत्र-A and B

8 शब्दै- B

9 प्रतीतमात्रे-A and c

10 तरान्तर्गमात्--C

11 रगम्स्थत--A and B

12 तथा--B

13 B omits हेतुः

14 रवगम्यत्वे तु -A and B