नुमानस्य प्रयय एव प्रामाण्यम्; प्रतीतिमात्रं तु तत्र विशेषणस्य ; तावता च तत् विशिष्टप्रतीत्यङ्गम; विशेषणप्रमितिस्वनुमितात् प्रत्ययात् , यथा पुरुषवचनाद्विशिष्टार्थप्रमाणेऽनुमितेऽर्थसिद्धिस्तत एव प्रमाणात्’ ; तत्र ऽर्थः प्रतीतिमात्रेणैव वक्तृज्ञानस्य विशेषणम् । तदेतदपेशलम् , स्मति प्रमाणसंशयविपर्यासविकल्पान्तर्गमात’ प्रतीतेः। तत्र |लौकिकविशेषणप्रतीतिर्न स्मृतिः, प्रागनधिगतेः । न संशयःकोटिद्वयसंस्पर्शाभावात् । न विकल्पः प्रव्रत्तिहेतुर्थप्रत्ययस्यापि तथा प्रसङ्गात् । तथा 'न विपर्यासः; कथं हि तत्र यथार्थत्वे तथाभूतग्राहिणी तत्प्रतीतिरर्थशून्या स्यात् परिशेषात् प्रमाणम् । परज्ञानेन च परः प्रतिपद्यत इति । सुभाषितम् ! अथ मतम्--न परज्ञानेन परः प्रतिपद्यते ; किंतु स्वज्ञानेनैव परज्ञानसामथ्र्योत् । अथ तस्य स्खज्ञानं कतमत् प्रमाणमिति वाच्यम् ; न तावच्छाब्दम्, शब्दवि ज्ञानादर्थे विज्ञानमिति लक्षणात्; न च तच्छब्दज्ञानात्; कुतस्तर्हि ? शब्दोथज्ञानादनुमितात् । अथ तस्य प्रमाण्ये प्रवृत्तिहेतुसद्भावसिद्धिः) प्रामाण्यं च तस्य दोषरहित शब्दोद्भवात्; तेन शब्दस्य तत्र प्रामाण्यमुच्यते ; तदधीनस्तत्रार्थनिश्चय '’ इति । तदप्यसांप्रतम् , 'शब्दादर्थज्ञानं शाब्दमिति लक्षणात् । पुरुषवचनमपि न।थं न प्रमाणम् ; कितु ज्ञानविशेषणे ; इथे । च विशेषणस्य गतिरुक्ता; तत्र स्मृत्यसंभवात् प्रमयमाण एव स .14 विशिष्टा थप्रमित्यङ्गम्; अन्यथार्थे प्रमाणान्तरमन्वेष्यं स्यात् । न च वक्तृज्ञानेनैवार्थ
सिद्धिःपरज्ञानेन न परः प्रतिपद्यत इत्युक्तम् ।
1 A omits अन 2 प्रमाणाः --B 3 B omits तदेतदपेशलम् । स्धूत प्रमाण 4 न्तमन्तर्गमात्-K 5 6 हेतुः-B 7 O omits न 8 C omits च |
9 तदस्य-A and B 10 B omits lव 11 12 स्तत्रानधयः-A and B 13 शब्दार्थ–C 14 C omits सः |