पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
97
नियोगकाण्डः

न हि पूर्वावमरॉन विना सामान्यकल्पना ॥ १९ ॥
गामेकामीक्षितवतो जायतेऽन्यत्र यादृशः ।
अवमशं दृष्टसतस्तथा 'न हि सदन्तरे ॥ ६० ॥
एकशब्दप्रवृत्तिस्तु दण्ड्यादिवदुपेयताम् ॥ ६०३ ॥

दृष्टरूपावमर्शः सामान्यकल्पनायां प्रमाणम् । यथा-बाहुलेयं दृष्टवतः शबलेये ‘स एवायम्’ इति । न च किंचित् सत् गृहीतवतोऽन्यत्र स भवति । एकशब्दप्रवृत्तिस्तु विनापि सामान्येनार्थान्तरयोगनिमित्ता, दण्डि पाचकादि’शब्दवत् । अत्रोच्यते--

को नु पूर्वावमर्कोऽयं पूर्वरूपान्वयो धियः ॥ ६१ ॥
सदन्तरेऽपि सोऽस्त्येव कयाचित् रवळ मात्रया ।
सर्वात्मना त्वनुगम न दृष्टः खण्डमुण्डयोः ॥ १२ ॥
न तादृशश्चन्नां भेदमात्राद्वैद्यःस्वपह्नवः ।
न भेदमात्रान्मृजातिहीनं मणिकमछकम् ॥ ६३ ॥
रूपान्वयः प्रत्ययस्य मणिकेषु हि यादृशः ।
न दृष्टमङ्कस्यास्ति मणिके रवळ तादृशः ॥ ६१ ॥

कः पुनरयं पूर्वावमर्शः- पूर्वरूपावभासो बुद्धेःअथ ’सोऽयम्’ इति पूर्वा- परानुसन्धानम् तत्र यदि पूर्वः कल्पः, सोऽस्त्येव सदन्तरे मात्रया । तथा हि-निरुपस्यवैलक्षण्येन सतां तुल्यरूपता प्रकाशते ; अन्यभा निरुपा- रूयवत् सन्तोऽप्यत्यन्तविलक्षणाः प्रकाशेरन् । अथ सर्वरूपानुगमःसोऽ भिनेतेऽपि सामान्यगोचरे नास्ति; न हि त्वण्डमुण्डयोः सर्वात्मनाईन्वयः , एकत्वप्रसङ्गात् सामान्याभवापः । अथ न तादृशःयादृशः वण्डा दिषु ; तदसत्; न विशेषमात्रेण संवेद्यान्वयिरूपप्रत्याख्यानं युज्यते,

गोत्वादेरथि तत्संभवात्; न हि देवदत्तस्य द्वितीयदर्शने यादृशो रूपानु


1 हि न–0

2 A and Bomit च

3 A omits शब्द

4 B omitड न

5 A and B omit रूप

6 मतान्वयः-0

7 o omitड न

8