पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
95
नियोगकाण्डः

अस्तु वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम् ॥ ११ ॥
तस्मिन् मिते वस्तुसवं भवत्यागमगोचरः ।
न च सापेक्षता नास्मिन्नन्तरार्थविभिन्नताम् ॥ ५२ ॥
प्रचक्षते येऽपि सत्तामन्यां न प्रतिजानते । ९२६ ।

भवतु वा प्रमणयोग्यता सत्ता ; सैव च प्रमेयास्तु; तत् प्रमेयं वस्तु सवमागमार्थः । न च प्रमाणान्तरापेक्षता | दोषःप्रमाणान्तरसंभेदस्याभा वात्; 'प्रमाणयोग्यः’ इत्येतावन्मात्राचिगतेः । तथा हि—येऽपि ममाण योग्यतां सत्तामाहुः न तद्वयतिरेकिणीम् तेऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति; तत्संस्पर्श अन्यत् प्रमाणमन्वेष्यं स्यात् । कथं नान्वेष्यम् ? यदा वचः प्रमाणयोग्यतायां पर्यवासितं न विशिष्टार्थसर्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टोऽर्थस्तदवश्यापेक्षणीयम् । किमर्थं तदपेक्ष्यते ? विशिष्टवस्तुसर्वाधिगमाय । किं पुर्नावशिष्टस्य वस्तुनः सवम्_? प्रमाण योग्यत्वम् । अधिगतमेव तर्हि तदत्यर्थनिष्ठाद्वचनात, प्रमाणयोग्यताया अस्त्यर्थत्वात् ।

प्रमाणान्तरसंभेदाभ्युपगमेऽपि नानामाण्यप्रसङ्गदोष इति दर्शयति

प्रमाणान्तरभिन्नार्थमपि मानं न नो बचः ॥ ६३ ॥
निरपेक्षमिहाथै 'तु प्रमितं बस्विदं मया ।
अर्थमात्रे च सापेक्षमन्यापेक्षार्थबोधनात् ॥ १४ ॥
अबाधितमपि त्वर्थे प्रमाणांशेऽपवघनत् ।
तत्राप्रमाणतामेति बुद्धानाप्तवचो यथा ॥ १५ ॥
आप्तवाक्यं पुनर्नाथे न मानांशेऽपसाधितम् ।
निरपेकं प्रमाणांशे व्यवहारोऽन्यथा कथम् ॥ १६ ॥
मयेति वकभावेन संभेदरहितं ततः ।
प्रीनज्ञानविज्ञेयविभागं स्वात्मवेदनम् ॥ १७ ॥


1 च-A

2 वथाधना-B