अस्तु वा मानयोग्यत्वं सर्वं तच्च प्रमीयताम् ॥ ११ ॥ |
भवतु वा प्रमणयोग्यता सत्ता ; सैव च प्रमेयास्तु; तत् प्रमेयं वस्तु सवमागमार्थः । न च प्रमाणान्तरापेक्षता | दोषःप्रमाणान्तरसंभेदस्याभा वात्; 'प्रमाणयोग्यः’ इत्येतावन्मात्राचिगतेः । तथा हि—येऽपि ममाण योग्यतां सत्तामाहुः न तद्वयतिरेकिणीम् तेऽपि नात्रान्तरार्थसंस्पर्शमिच्छन्ति; तत्संस्पर्श अन्यत् प्रमाणमन्वेष्यं स्यात् । कथं नान्वेष्यम् ? यदा वचः प्रमाणयोग्यतायां पर्यवासितं न विशिष्टार्थसर्वं बोधयति, तत्र यस्य प्रमाणस्य योग्यो विशिष्टोऽर्थस्तदवश्यापेक्षणीयम् । किमर्थं तदपेक्ष्यते ? विशिष्टवस्तुसर्वाधिगमाय । किं पुर्नावशिष्टस्य वस्तुनः सवम्_? प्रमाण योग्यत्वम् । अधिगतमेव तर्हि तदत्यर्थनिष्ठाद्वचनात, प्रमाणयोग्यताया अस्त्यर्थत्वात् ।
प्रमाणान्तरसंभेदाभ्युपगमेऽपि नानामाण्यप्रसङ्गदोष इति दर्शयति
प्रमाणान्तरभिन्नार्थमपि मानं न नो बचः ॥ ६३ ॥ |
1 च-A |
2 वथाधना-B |