पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
79
नियोगकाण्डः

तत् प्रमाणान्तरापेक्षा प्रामाण्यमतिवर्तते ।
मानान्तरस्याविषये विध्यर्थं तु प्रतिष्ठितम् ॥ ११ ॥
अनपेकं प्रमाणत्वमनुते कर्मवाक्यवत् ।
परप्रख्यभावेऽपि प्रामाण्यायैव तद्विधिः ॥ १२ ॥

विधिमन्तरेण न कार्योपदेशप्रतीतिः ; 'यथावस्थितं वस्तु तद्विधस्यानुवाद- मात्रत्वं गम्यते ; अनुवादश्च प्रमाणान्तरविषय इति तदपेक्षो भूतार्थो नार्थ उच्यत इति सापेक्षत्वादप्रामाण्यम् । विध्यर्थस्य तु प्रमाणान्तराविषयत्वात् तन्निष्ठमनपेकं प्रमाणं कर्मविधिवाक्यवत् ; प्रमाणान्तराविषयश्च विध्यर्थः; न हि ‘कुरु’ इति शब्दज्ञानादन्यतः प्रतीतिः । एवं च सति तस्वप्रति- पत्तिपरे वाक्ये यद्यपि वाक्यार्थबोध त पराचना प्रवृत्तिविधिफलं नास्ति, प्रामाण्यायैव तु विधिनिष्ठत्वमेषितव्यमिति । अत्रोच्यते

प्रमाणान्तरयातार्थभावः किमनुवादता ।
उत भूतार्थता तत्र सिद्धार्थमपि यद्वचः ॥ १३ ॥

न मानान्तरलब्धार्थतया तस्यावबोधकम् । न तत् सापेक्षमेषा चेदभिनेतानुवादता ॥ १४ ॥ कः पुनरनुवादः —अधिगमान्तरसंभिन्नार्थत्वम् , मनान्तरेणाधिगत इति प्रति पादनम्? आहोस्विद्भतार्थतामात्रम् ? तत्र पूर्वस्मिन् कल्पे भवत्वधिगमान्तर संभिन्नार्थे सापेक्षम् । यतु भूतार्थमपि न मानान्तराधिगत इति बोधयति न तदनुवादकम्, न सापेक्षम्; पूर्वाधिगमसंस्पर्शान प्रतिपत्तेरभावात् । अथापरः कल्पः

सापेक्षनायाः को हेतुः शुद्धा सिद्धर्थता यदि ।
प्रमाणान्तरसंभेदस्तद्वयपेक्षणकारणम् ॥ १५ ॥
अनृषीप्रभवे नास्ति भूतार्थेऽपि स वैदिके ॥ १५३ ॥

भूतार्थमात्रं चेदनुवादता न सापेक्षत्वहेतुरस्ति ; न भूतार्थतैव सापेक्षत्वहेतुः, भूतार्थयोरपि प्रत्यक्षानुमानयोरनपेक्षत्वात् । तस्मादृतार्थोऽभूतायै वाधिगमान्तर-

संस्पर्शः प्रमाणान्तरापेक्षाहेतुः, स्मृतौ दर्शनात्; सा धधिगमान्तरसंभिन्नार्थेति


1 यथात्व-A

2 B and comit एव

3 भूतार्थ-A