पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
78
ब्रह्मसिद्धिः

ज्ञानस्य हि दृष्टमेव फलम्--ज्ञात्रा ज्ञेयस्याभिव्याप्तिः, ज्ञातारं प्रति तस्य प्रकाशता--न त्वदृष्टं कालान्तरमावि, यदर्थं विधिः स्यात् । स्यादे , ; तत्--आत्मज्ञानस्य फलान्तरमपीष्यते मोक्षः । तन्नअसाध्यत्वात्न हेतुजन्योऽसौ मोक्ष, तवच्युतेःकार्यस्वे विनाशात् तस्य, पुनः संसारात्; आत्यन्तिकी च संसारनिवृत्तिमक्ष इत्युच्यते । ननु कायऽपं नाशो न नश्यति । सत्यम्; भावरूपं तु मोक्षे निरतिशयानन्दलक्षणं निरतिशयैश्वर्य लक्षणं चाभिनेयैतदुच्यते, भावस्य कर्यस्य नाशेनाविनाभावात् । आगामि- शरीरेन्द्रियबुद्धिसंयोगाभवस्य प्रागभावस्य कार्यत्वमनुपपन्नमेव । बन्धहेतु निवृत्तिस्तु यद्यपि कार्यं, कार्यत्वेऽपि च नास्था अनित्यत्वप्रसङ्गः; तथापि नासौ तवज्ञानात् पृथगिति न तेन साध्या; अविद्या हि बन्धहेतुः, तत्व ज्ञानोदय एव च तन्निवृत्तिः ।

अथवा ¥परं ज्योतिरुपसंपद्य वेन रूपेणवतिष्ठते । ’ इति वरूप स्थितिर्मुक्तिरुक्ता; साध्यवे च न वरूपस्थितिः स्यात्; अतो मोक्षत्वा च्च्यवेत । यत् –५ न च पुनरावर्ततं ” इति श्रुतेः प्रामाण्यात् कार्य- स्यापि मोक्षस्य नित्यत्वमिति ; दृष्टविपरीतमपि तदाश्रीयेतानन्यगतित्वे श्रुतेः। समुखाताय यदा तु विदितारमतवस्याद्वयं विशुद्दप्रकाशममानं पश्यतः मनवयवेनाविद्ययां हेत्वभावात् पुनर्बन्धस्यासंभाव्यस्यात् प्राप्तमेवार्थे वर्त मानापदेशादनुवदति श्रुतिरर्थवादत्वेन, तदा कुतसञ्जामाण्यादनन्तफलत्वम् ? तथा हि--वर्तमानापदेशादेव नापुनरावृत्तिः साध्यत्वेनावगम्यते । ; न च अर्थवादादपि कामोपबन्धोऽस्ति, यतः साध्यता गम्येत ; तस्मादर्थवादः । च या फलकल्पना, साप न ज्ञेयतस्वावभासदृष्टफलनिराकाङ्क्षेऽनुप- पक्षा । पुरुषार्थता चास्य वक्ष्यत इति । अन्ये पुनराहुः

विधेर्विना कार्यशून्यं भूतार्थमनुवादकम् ।
वचः स्यादनुवादध प्रमाणान्तरगोचरे ॥ १० ॥


1 वि-B and c

2 त्येदमुच्यते—A

3 Chand. 8-19-५

4 भिनिष्पद्यते—A

5 Chउँnd. 8-15 1

6 --A

7 न गम्यते-A