यदपि मतम्—सत्यपि वाक्यादौंपछवे तात्पर्यं दुर्लभम् , भूतार्थ परस्य वैयर्यात्; सांशयिकत्वं वा, अतात्पर्यस्यापि दर्शनाज्जपमन्त्रेषु । विधौ तु सत्यर्थज्ञानस्य चोदितवान्नर्थेऽविवक्षितो भवितुमर्हति । तस्माद्विवक्षि तार्थत्वाय विधिः प्रार्थः ।
तद्वर्तमर्थपरता शब्दानां लोकवेदयोः । |
औत्सर्गिकः शब्दानामर्थं प्रति शेषभावः ; निमित्तान्तरात्तु स्वरूप- प्रधानत्वमविवक्षितार्थत्वमपवादो लोके ; तथा वेदेऽपि, लोकावगम्यत्वा छब्दसामथ्येस्य ; तदुक्तम्— 'अविशिष्टतु वाक्यार्थः’ इति ।
दृष्टार्थता च स्वाध्यायविधेरत्र न भिद्यते । |
यथैव कर्मविधीनां « 2 दृशे हि तस्यार्थः कर्मायबोधनम्’ इते नाविवक्षितार्थानामध्ययनात् फलान्तरकल्पना तथा दृष्टत्वादात्मतत्त्वावबोधस्य वेदान्तानाम् ; न चॐ भूतार्थप्रतिपत्तौ वैयर्यमिति वक्ष्यते ; प्रतिपत्तिविधौ च तुल्यम् । अवश्यं चतदेवं विज्ञेयम् ; अन्यथा। सह विधायकेन कृत्त- स्याविवक्षितथेता स्यात्; यतो विधायकशब्दनिबन्धनमन्येषां विवक्षितार्थत्वम् । विधायकस्य तु' न तन्निबन्धनमस्ति । एवं च तस्याविवक्षितार्थत्वे इतरेऽ- पि तथा स्युः अथ विधयकः प्रकृत्या दृष्टार्थत्वेन चार्थपरः, इतरेऽपि तथेति व्यर्थेऽसौ विधिः ।
ज्ञानस्य पुरुषार्थत्वसिद्धये विधिरिष्यते । |
विध्यधीनः पुरुषार्थसाधनतावबोधः, तच्छब्दतो लब्धजन्मनोऽप्यात्म तस्यावबोधस्य पुरुषार्थसाधनत्वावगमो विधेरित्येतदपि न शोभनम् ।
ज्ञेयाभिव्याप्तितो यस्मान्न विज्ञानात् फलान्तरम् । |
1 Mim.-St. I.2.40 2 sebara-Bhasya 1-1 1 |
3 BoInits च 4 B and Comit त |
5 वा |