पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
80
ब्रह्मसिद्धिः

तत्साधनमपेक्षते । एवं च पुरुषबुद्धिप्रभवं भूतार्थमभूतार्थं वा वचो भवति सापेक्षम्; ततो हि तत्संभिन्न एवार्थे प्रत्ययः , न त्वनपेक्षिसपूर्वाधिगमः स्वातन्त्र्येणाथै । यथोक्तम् - 'व पौरुषेयाद्वचनात् ‘ अपि एवमयं पुरुष वेद' इति भवति प्रत्ययः, "न ‘एवमर्थः' इति ” । अपुरुषबुद्धिप्रभव- त्वाद्वेदवचसि भूतार्थेऽपि न सापेक्षत्वहेतुः, पुरुषसंबन्धकृतत्वात् पूर्वाधि- गमसभदस्य ।

स्यादेतत्--अपौरुषेयेऽपि भूतार्थे तद्विषये प्रमाणान्तरस्य संभवात्तद पेक्षा; तथा हि-- संभवति प्रमाणान्तरे तद्विषये तद्विसंवादोऽपि शङ्कयेत ; तस्मात् तदभावाय ’तत्संवादोऽपेक्षणीयः असंभवति तु कार्येऽर्थे न 'कुत श्चिद्विसंवादाशङ्गतिं नापेक्ष्यमस्ति । अत्रोच्यते-

न च संभवमात्रेण तदपेक्षवकल्पते ।
विशेषो नहि गभ्येत सापेक्षत्वे तदा तयोः १६१ ॥

द्वयोरेकविषयसंभवे कुत एतत- शब्दस्तदपेक्षःन पुनस्त' प्रमाणान्तरं शब्दापकं स्यादिति" ? 'अथ शब्दः प्रमाणान्तराधिगतविषयो लोके दृष्ट इति, प्रमाणान्तरस्याविषये तर्हि नतरां प्रामाण्यं तय भवति; प्रमाणान्तर- विषये हि प्रमाणान्तरसंभवादपि तावत् स्यात् , अन्यत्र तदभावाहुर्लभं तत्। अथ पौरुषेयत्वकारिता लेकवचसां प्रमाणान्तराधिगतार्थता, न शब्दसाम वैकारिता; शब्दस्य प्रमाणान्तरासंमिन एवार्थे सामथ्र्यम् न तर्हि प्रमा णान्तरसंभवाच्छब्द एव सापेक्षः; तदपि शब्दसंभवाच्छब्दापेक्षा स्यात् । किमतस्तस्य ? सापेक्षत्वेनाप्रमाणं ’ स्यात् । न शब्दस्य तत्रापेक्षा युज्यते ; सति हि तस्य प्रामाण्ये तस्संवादंविसंवादावपश्येयाताम् । अथ शब्दस्था प्रामाण्यान्न तत् शब्दापेक्षया प्रमाणम; प्रमाणमेष, अनपेक्षत्वात् । शब्द- स्याप्रामाण्यं कुतः ? प्रमाणान्तरापेक्षत्वात् । तस्य च प्रामाण्यमनपेक्षत्वात्, अनपेक्षत्वं च शब्दस्यात्रामाण्यादितीतरेतराश्रयम् ; प्रमाणे हि शब्दे तद्वि

षये भवति तदपि सापेक्ष स्यात्तस्संभथ इब शब्दः, विशेषाभावात् ।


1 Sabar-Bhagya 1-1–2

2 skbara-Bhaya readd नैवमयमर्थः

3 त्वातु वेद-A

4 कदाचित्तु--A

5 A omits त

6 A omits इति

7 यदि-A

8 न च--A

9 भिनेऽर्थ एव-A

10 णत्वात्—A