पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
57
तर्ककाण्डः

हेि भावानामसंकीर्णस्वभावता ; यदवोचन्-- 'वस्वसंकरसिद्धिश्च तम्रा माण्यसमाश्रया'” इति तान् प्रत्युच्यते-

अन्योन्यसंश्रयाद्वेदो न प्रमान्तरसाधनः ॥ १० ॥
नास्मिन्नयं नायमयमिति भेदाद्विना न धीः ॥ १० ॥

न यध्यवच्छिद्यते, यतश्च व्यवच्छिद्यते, तयोरप्रतिपत्तौ रवळ व्यव च्छेदगतिः; नानपेक्षितविषयनिषेध्यो निषेधोऽस्ति ; सन् वा शून्यतामाप- दयत्वचः-- न भेदमित्युक्तम् । तेषामपि

गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ।
मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥

तयोश्च प्रतिपत्तिर्यदि नासंकीर्णस्वभावयोः, अपि तु वस्तुमात्रत्वेन , व्यवच्छे धव्यवच्छेदावधिविभागाभावात्; न निषेधसंभवः अर्थमात्रे ह्यविभागे; विषय त्वेनापेक्षिते न निषेध्यम ; निषेध्यत्वेनपेक्षिते न विषयविशेषः; तत्रात्यन्ताय निषेधः स्यात् ; स च न सिद्धवेनासिद्धत्वेन वा युज्यत इत्युक्तम्। कस्य चित् कुत- श्चिच्च भेदप्रतिपत्तौ सर्वस्य सर्वतो भेदगतिः स्यात्, अविशेषात् । तस्मादनेना संकीर्णस्वभावेन मिन्नावेव प्रतिपद्य विषयनिषेध्यौ नेदमिह,’ ‘नायमयम' इति व्यवच्छेदः प्रतिपत्तव्यः, संभवात् नियमाच्च । न चान्यथा प्रतियो गित्वम्, सामान्योपलब्धौ 'च स्थाणौ पुरुषाभावप्रतिपयभावात् । तथा च सिद्धविषयनिषेध्याङ्गीकरणेन व्यवच्छेदमात्रविधायिन्यभावप्रतिपत्तिः प्रत्यात्ममुपलक्ष्यते । तथा च इतरेतराश्रयत्वम्--असंकरपूवेमभावज्ञानम् , ततश्चासं करसिद्धिरिति । अपि च न प्रमाणानुत्पादमात्रादभावज्ञानम् , सुषुप्ता दाबनुत्पत्तेः; तस्मात् सत्सु प्रमाणकारणेषु प्रमाणानुत्पादोऽभावज्ञानहेतु- रिष्टः । न च तस्य । खरूपभेदः कश्चित् , येन सामर्थातिशयाच्चक्षुरादि वद्वोधकः, किं तु नान्तरीयकत्वात्; नान्तरेण प्रमेयाभावं सत्सु प्रमाण हेतुषु प्रमाणानुरुपादः; असस्पु तु सत्यपि प्रमेये तदभावात् स्यादिति ।

तथा च लिङ्गवत् ज्ञानापेक्षः प्रतिपत्तेर्जनकः; स च यदि वस्वन्तरज्ञानम्


1 saka-Vartika page 478

2 समाश्रयात्—0

3 शिर्द-A

4 S16ks.artika pag 482

5 A omith

6 comit भविषात्

7 O omits च

8 पुरुषस्याभाव-A