नासिङ वस्तु भेदे सिध्यति ; ज्ञेयभेदानुमेयो हि ज्ञेयानुमेयानां ज्ञानानां भेदः । ‘ तथा च वस्तुभेदसिद्धिपूर्वकैवाभावाद्वेदावगतिरितीतरेतराश्रयत्वम् । अथा मनोऽपरिणामः; न स स्तिमितावस्था, सर्वप्रतिपत्तौ कस्यचिदभावस्यानवगतेः तस्मात् सत्यपि वस्त्वन्तरज्ञानरूपपरिणामे तज्ज्ञानरूपपरिणामाभवोऽभावज्ञान हेतुः । न चैष विशेषः प्राग्वस्तुभेदसिद्धेः सिध्यतीति तदेवेतरेतराश्रयत्वम् । तथा
ये त्वाहुः--दर्शनादेव भावानां भेदः सिध्यति ; हि- निर्विकल्पस्य प्रत्यक्षस्य सामान्यविषयत्वमपाकुर्वतोक्तम् --‘‘तदयुक्तं प्रति- द्रव्यं भिन्नरूपोपलम्भनात् ” इति ; यस्तु संयोगात् समवायाद्वा . संकरः सोऽमावाख्येन प्रमाणेनापनीयत इति ; ते प्रागेव प्रत्युक्ताः ।
येऽपि-विधायकप्रत्यक्षपुरःसरं प्रत्यक्षान्तरमेव वस्तुग्रहणप्रतियोगि- स्मरणेतिकर्तव्यतानुगृहीतक्षप्रतिलब्धजन्म व्यवच्छेदकं मन्यन्ते; यथैव सविकल्पस्य वस्तुग्रहणस्य पश्चजन्म , शब्दस्मरणव्यवधिश्च--न चानै निद्रयकत्वम् , इतिकर्तव्यताविशेषानुगृहीतादिन्द्रियात् तदुत्पत्तेः—एवं नास्तीत्यपि ज्ञानस्येति ब्रुवन्तः; तान् प्रतीदमेव वक्तव्यम्-अन्योन्यसंश्रया वेदो न प्रमान्तरसधनः । प्रत्यक्षान्तरसाधन इत्यर्थः; ‘ अयमसौ न भवति’ इति ज्ञानं प्रत्यक्ष वा प्रमाणान्तरं वा ; सर्वथा विषयनिषेध्यविभागा दृते न निषेधसंभव इति । किं च
मीयमानैकरूपेषु न निषेधोऽवकाशवान् ॥ ११ ॥
अपि च सन्मात्ररूपे सर्वत्र प्रतीयमाने तत्वभावेषु वस्तुषु नेतरा मिमत इतरामिमतप्रमणानुत्पादः सखभावत्वात् तयोः; ‘सत् ' इति च सर्वत्र प्रमाणसद्भावात्; प्रमाणाभावाच्चेतरेतराभावज्ञानमिति । ननु नार्थानां चिदभिन्नं रूपम्; प्रत्यभिज्ञानाद्धि तद्रम्येत ; न चार्थमात्रं दृष्टवतोऽथ न्तरे स एवायमिति प्रत्यभिज्ञास्ति, 'यथा एकां मां दृष्टवतो गवान्तरे ;
सच्छब्दप्रत्ययानुवृत्तिस्तु पाचकादिवयोगनिबन्धना; प्रमाणविषयो हि ‘सन्'
1 भेदगति-- 2 अथाप्यात्मनो-A 3 o adds इति |
4 b yrika pg७ 5 प्रमीयमाणे--A |
6 तदवगम्येत--A 7 0 cmits . यथा and दृष्टवत |