पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
45
तर्ककाण्डः

अन्ये तु --कुतश्चिन्निमित्ताङडौ लब्धरूपाणां बहिर्निषेधः क्रियत इति वर्णयन्ति; अन्यथा दैवनिषिद्ध कः प्रतिषेधोप्राप्तरूपे ? 'प्राप्तरूपे व कथमत्यन्ताय प्रतिषेधः अपि च अनपेक्षितविषगनिषेध्ये व्यवच्छेदे शून्यता प्रमाणार्यः स्यात् न भेदः सर्वस्य सर्वत्राविशेषेण निषेधात् । यस्तु मेदाय व्यवच्छेदः स मेद्ययोः सिद्धिमपेक्षते; न च सा विधाना ‘इत इति प्राग्विधानमेषितव्यम्; विधिपूर्वक एव च निवेयोऽङ्गीक्रियत इति ।

नापि विधिपूर्वको व्यवच्छेदः; यतः--


क्रमः संगच्छते युक्त्या नैकविज्ञानकर्मणोः ।
न संनिहितजं तच्च तदन्यामनैिं जायते ॥ ३ ॥

न ववेकप्रमाणज्ञानव्यापारौ सन्तौ विधिव्यवच्छेदौ क्रमवन्तौ युज्येते, क्षणिकत्वात् क्रमवतोर्हि व्यापारयोः पश्चात्तनो न तव्यापारः स्यात्, व्यवधानात् । अपि च जन्मैव बुडेव्यपारोऽर्थावग्रहरूपायाः ; सा चेर्यविधानरूपोदया, विधिरेवास्या व्यापारः, यौगपद्यस्य निषेधात् , उत्प न्नायश्च पुनरनुत्पत्तेः । अपि च संनिहितार्थालम्बनं प्रत्यक्षे नासंनिहित- मर्थमवभासयितुमर्हति ; न चानवभासमान'रूपं व्यवच्छेत्तुं पर्यामति ; अनव मासमाने हि तत्र व्यवच्छेचे व्यवच्छेदमात्रं स्यात्, न व्यवच्छेदः कस्य चित्; सर्वस्य वा स्यात् । तस्मान्नानवभासमाने व्यवच्छेदी ‘व्यवच्छेदः न च संनिहितार्यावलम्बने प्रत्यक्षेऽसंनिहितावभासो युक्तः स कथमिदानीं बाधकं प्रत्यक्षम ? तत्र हि पूर्वार्थनिषेधपुरःसरोऽभ्यविधिरेकज्ञानेऽभ्युपेयते, असंनिहितनिषेध्यावभासश्च ; तस्मान्नैष नियमः , यतः पूवों निषेधः, एक 'ज्ञानव्यापारे च क्रमः, 'प्रत्यक्षेण चासंनिहितार्थावभासः । नैतत् सारम् ; तत्रापि पूर्वविज्ञानविहिते रजतादौ ‘इदम्’ इति च संनिहितार्थसामान्ये निषेध विधिपूर्वं एव; शुक्तिकाविधिस्तु विरोधिनिषेधपूव उच्यते ; विधिपूर्वता ।

नियमेन निषेधस्योच्यते, न विधेर्निषेधपूर्वकता निषिध्यते ; न च तत्रैक


1 अप्राप्तरूपे-B

2 इतामिति-B

3 A omits

4 A and B omit रूप

5 and B

6 वज्ञान–A

7 प्रत्यक्षे–A

8 B omita च

9 A omite अर्थ

10 A omits क