पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
46
ब्रह्मसिद्धिः

ज्ञानस्य कमड्यापारता, उभयरूपस्यो'स्पत्तेः ; पूर्वज्ञानप्रापितत्वाच विषयव्यवच्छेद्ययोर्नासं भवः ; पूर्वज्ञानावभासिते च व्यवच्छेथे व्यवच्छेदत्य वृत्तेर्नासंनिहितार्थावभासप्रसङ्गः, पूर्वापेक्षस्य तस्योत्पत्तेः ; पूर्वापेक्षयैव च तत् हिपमुदेति ; अन्यथा एकरूपमेवोदीयात् । अपि च सर्वव्यवच्छेदान पाकुर्वतः को व्यवच्छेदोऽभिमतः, येन प्रत्यवस्थीयेत सिंद्धः स लोक इति चेत् , अयं वा किं न लोकासिद्धः--‘ नाधो गौः, न गौरश्वः’ इति

यत्तु मतम् —एकविधिरेवान्यव्यवच्छेदः; तया हि-—दर्शनं ययैव तदा कारतया ततूपं विदधाति, तथा तदेकाकारप्रतिनियमात् ‘तदेव, नान्यत् ’ इत्य न्यद्यवच्छिनति ; तत्सामथ्र्यप्रभावितौ च ‘इदम् नेदम्’ इति विकल्पैौ भावा भावब्यवहार प्रवतयतः । न येकाकारप्रतिनियतादनन्यसंसर्गिणो ज्ञानाद- न्योऽन्यज्यवच्छेदः । ‘तत्रोच्यते

विधानमेव नैकस्य व्यवच्छेदोऽभ्यगोचरः ।
मा स्म भूदविशेषेण मा न देकधीजुषाम् ॥ १६ ॥

नैकप्रतिनियमोऽन्याभावनिश्चयनिमित्तम् , उपलब्धिलक्षणप्राप्तस्येतरस्य चाविशेषेण व्यवच्छेदप्रसङ्गात्; तत्प्रतिनियमों हि ततोऽन्यस्यासंसर्गः। तथा चासंसर्गाद्यवच्छेदे तस्य दृश्यादृश्ययोरविशेषादुमयोंर्यवच्छेदः स्यात्। ' --भवत्येव ; तथा हि--यावन्तोंऽस्यनात्मानस्तानविशेषेण अय मतम् तदात्मनियमादर्शनमपाकति ; तथा च नास्यान्य आत्मानः; तद्देशकालास्त भवेयुःरूपादिवदविरोधात् ; तत्रोपलब्धिळक्षण'माप्तिर्विशेषस्तद्देशकाल व्यवच्छेदावधारणाय ; संभवति यनुपलम्यस्तद्देशकालेऽनात्मानुपलभ्यमानोऽ प्यन्योपलब्ध, रूपोपलब्धाविव रसः; न तु तुल्यपलम्भयोग्यतः, नियमे नोपलम्भात्, इतरवत् ; अन्यथा न तुल्योपलमयोग्यतः स्यात् । सत्यम स्वयं विभागःन त्विदानीं दर्शनप्रतिनियमस्य सामर्यम् ; तथा हि

प्रतिनियतमपि तत्र देशे काले च रूपे दर्शनं तयोर्यथा रूपविधिमात्रो


1 स्यैवोत्पत्ते: A

2 स्थीयते--A

3 दन्यासं-0

4 Saikhappi and Citanha read अन्नः in their ooramentica

5 स्वायण-B

6 सगव्यवच्छेदे-B

7 प्राप्तिविशेष--B

8 B and 0 omit

9 कारौ वैशे--A

10 A omits यथा