ओम् ।
॥ तर्ककाण्डः ॥
ननु प्रत्यक्षादिभिव्र्यावृत्तानां भावस्वभावानामवगमात्रैकस्मिन्नद्वये शब्दः प्रमाणम् , प्रत्यक्षादिविरोधात् , 'ग्रावप्लवनाचार्यवचोवत् । उच्यते
आहुर्विधातु प्रत्यक्षे न निषेद्धं विपश्चितः । |
ननु प्रमाणान्तरपरतन्त्राणां पुरुषवचसां तद्विरोधाद्युक्तमप्रमाणत्वम् ; स्वतन्त्रस्यत्वाम्नायस्यानपेक्षितप्रमाणान्तरप्रवृत्तेस्तद्विरोधेऽपि कस्मादप्रमाणत्वम् आम्नायविरोधादेव तु प्रत्यक्षादीनि प्रमाणतायाः किमिति न च्यवन्ते ? तुल्येऽनपेक्षत्वे न विशेषहेतुरस्ति । तत्र वृथा प्रमाणान्तरविरोधपरिहर परिश्रम इति ।
तत्र केचिदाहुः--प्रत्यक्षादिविरोधे आम्नायस्पृ दौर्बल्यम्, सापेक्षत्वात् ; तथा हि-स्वरूपसिद्यर्थमेव तावत् प्रत्यक्षादीन्याम्नायोऽपेक्षते ; तथा च तेषां प्रामाण्यमनुमन्तव्यम्, तदपबाधने स्वरूपस्यैव तावदसिद्धेः; न त्वेव- माम्नाये प्रत्यक्षादीनां काचिदपेक्षा। इष्टव्यभिचारत्वाच्च शब्दस्य,‘ प्रत्यक्षस्य चादृष्टव्यमिचारत्वात् । अपि च सावकाशानवकाशयोरनवकाशं बलवत् ; अनवकाशाथ प्रत्यक्षादयः, सावकाशस्तु शब्द गौणेनार्थेन ; तथा हि शक्यमेकत्वमभेदश्रुतीनामुपचरितमवकाशो वर्णयितुम् ; अविवक्षितथनां वा वेदान्तानां जपोपयोगोऽवकाशः ; उपनिषदो वेदान्ता इति वर्णितम् । किं च व्याकुलत्वादाम्नायस्य अध्याकुलत्वात् / प्रत्यक्षादीनाम् ; कमवधयां हि भेदाश्रया अमेदाश्रयाश्च वेदान्ताः परस्परपराहता असत्यपि प्रमाणा न्तरविरोधे दुर्लभप्रामाण्याः; किं पुनरव्याहतप्रतिष्ठितप्रामाण्यप्रत्यक्षादिविरोध तस्मादिदमविरोषाय प्रयत्यत इति । मुख्यत्वाच्च ; मुख्या हि प्रत्यक्षादयः : जातस्य जन्तोरपरकाल आम्नायः ; स तैः प्रतिष्ठितणैरपहतविषयः कल्पनीयायी बाध्यते, तदनुसारेण वार्थकर्पनामर्हति । अथेतोऽपि च मुल्यता प्रत्यक्षादीनाम् ; पदपदार्थविभागाधीन ‘आम्नायार्थपरिच्छेदः ,
स न प्रत्यक्षादिष्यायतते । अतोऽविरोधाय प्रयत्यत इति ।
1 शिळ-A and U 2 स्याम्नायय-B 3 Bomitc--त्य |
4 वर्णिताः A ; वर्णितः B 5 |
6 प्रयब इति--A |