पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
33
ब्रह्मकाण्डः

दिषु प्रसङ्गात्; किं तर्हि निमित्तम् ' 'अनादिरप्रयोजना चाविद्य’ इत्युक्तम् ; तत्र च हेत्वनुयोगो निरवकाशः विपर्यासतसंस्कारयोश्च परस्परहेतुफलभावेन | व्यवस्थानान्न दोषः; अतो । विपर्ययज्ञानस्य निवृत्तिर्विद्यया साध्येति तत्र ज्ञानस्य सहकार्यपेक्षा स्यात् । एतच्च वार्तम् : न खलु शुक्तिकादिषु वि- पर्यासपुरःसरं ‘समुपजातसम्यग्ज्ञानास्तन्निवृत्तये पृथक् प्रयतन्ते, सहकारि वान्यदपेक्षन्ते ; यतो विरोधिभावान्तरोत्पाद एव पूर्वप्रध्वंसः, न शून्यम् ; अन्यथा न प्रध्वंस हेतुमान् स्यात् ; विरोधिनी च विद्य विपर्ययज्ञानस्य। तदुत्पत्तौ विपर्यास नष्ट एव भवति । अशुच्येत–कर्माणि बन्धहेतवः; तत्क्षयो ज्ञानात् सहकारिसव्यपेक्षादिति ; तच्छ न ; यावदविधं कर्मफल विभागव्यवहारमात्रम् ; तस्य प्रमृष्टाशेषविशेषविशुद्ध'ज्ञानोदये कुतः संभवः। तथा च विपर्याससंशयाभ्यां तुल्यवत् प्रसंख्यातानि कर्माणि

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ इति ।

अथ विज्ञानवैमल्यायान्यापेक्षा ; सापि मुधा, संशयविपर्यासयोर्जान- मलयोः प्रमाणोत्थविज्ञानेऽसंभवात् । अथ मतम्- शाब्दज्ञानादन्यदपि प्रत्यक्ष ज्ञानमिष्यते विगलितविभागोळ्हं सर्वविकल्पातीतम् ; तस्य हि ब्रह गोचरः, न शाब्दस्य विभक्तपदार्थसंसर्गाद्वाहिणः; तदुत्पत्तौ कमपासनाद्य पेक्षेति । कः पुनरस्य विशेषः, येन तदर्यते ? स्पष्टाभत्वम् , न तस्योपयोगः ; ज्ञानं हि ज्ञेयाभिव्याप्तये, शब्दज्ञाने लेपने आप्तमेव ज्ञेयम् ; प्रमितेः प्रत्यक्ष परत्वात् तत्र च नैराकाङ्क्षयात् तदर्धेत इति चेत्, एतदधिगते प्रमेये प्रमेयसिद्धयर्थत्वात्तदा किमन्यदाकाङ्क्ष्येत ? प्रमाणान्तरमिति चेत् न, काङ्क्षायाः ; पुनः सिद्धयर्थमिति , चेत् न, पूर्वस्मादप्यसकृत्तत्सिद्धेः ; सिद्धस्य च सिद्यपेक्षायां न हेतुरस्ति । उपायान्तरसद्भावश्चेत्, उपायान्तरं

तर्धपेक्ष्येत ; प्रमेये तु नैराकाङ्कयमेव । श्रीसिविशेषश्चेत्, स पूर्वप्रमाणजादपि


1

2 समुपजनित-A; उप-जात-B

3 ध्वंसः--A and B

4

5 Mund. 2-2-8

6 विपर्यययोः-B

7 B omits च

8 आकाङ्क्ष्यते—B

9 प्रमिति-O