पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
31
ब्रह्मकाण्डः

येऽपि' विपर्ययेण ज्ञानकर्मणोरेकाधिकारत्वमाहुः, तैरपि ज्ञानस्य कर्म संबन्धे प्रमाणं । वक्तव्यम् । न तावत् ५°ीहीन् प्रोक्षति ” इति यथा ; तत्र हि प्रकरणात् प्रकृतकर्मापूर्वलक्षणापरो नीहिशब्दः स्वस्वरूप आनर्थक्यात प्रकृतापूर्वतंबन्धं बोधयति । नापि यथा ५८ ‘यस्य पर्णमयी जुहूर्भवति” इति ; तत्र हि जुह्वादि अव्यभिचरितकर्मसंबन्धमसत्यपि प्रकरणे कमपस्थापयति ; तत्र वाक्येनैव संबन्धः । आत्मज्ञानं तु न प्रकरणे श्रुतम्; नाप्यास्मा” अव्य भिचरितकर्मसंबन्धः ; तेनास्य कर्मसंबन्धो दुर्वचः । तथा चाज्ञाते पारायें या नाम फलश्रुतिर्न सा अर्थवादिनी भवतीति पृथगधिकारत्वम् । अथ मनम्-–वर्तमानापदेशात् “ न च पुनरावर्तते " इति कामोपबन्धाभावात् फलं विपरिणमय्य कल्पयितव्यम्; तच्च तदाकाङ्क्षायां सत्याम् ; न तु दृष्टे सति तदाकाङ्क्षा ; अस्ति चारमज्ञानविधे'ढीष्टफलं देहान्तरोपभोग्यफलेषु कर्मसु प्रवृत्तिः तस्मात् स्वध्यायाध्ययनविधिवदात्मज्ञान विधिःस्वाध्याया ध्ययनविधिर्ह दृष्टकर्मावबोधनिराकाङ्क्षो नार्थवादतः फलं प्रार्थयते, तथा मज्ञानविधिरपीति । &नाधिकारान्तरम् । तदप्यसत् ; यतोऽयमून्य एवौ. पनिषदः पुरुषो वेदान्तेषु जिज्ञास्यते ; न च तज्ज्ञानं कर्मप्रवृत्तिहेतुः हि तस्य कर्तृत्वभोक्तृत्वे; एवं शाह— 6 10न तदक्षाति किंचन १ “ : 11 अन क्षन्नन्योऽभिचाकशीति » इति ; यस्तु कर्मणां कर्ता भोक्ता च, स एव सर्वप्रत्वक्षसिद्धः; न शब्दप्रमेयः । ननु जीवपरमात्मनोरेकत्वमेव ; एवं आह— ‘अनेन जीवेनात्मना ” इति । सत्यम् ; तस्यैव तु जीवस्यैव मविद्यानुबन्धं प्रत्यक्षावसेयं रूपम् , तच्च कर्मप्रवृत्तिहेतुः ; न च तत् शब्दमपेक्षते । यचु स्वयंप्रकाशं सर्वविभागशून्यं तत शब्दाज्ज्ञातुमिष्यते ; तच्च कर्मप्रवृत्तिविरोधि; तज्ज्ञानस्य कथं कर्मप्रवृत्तिर्घटं प्रयोजनं स्यात् ? तथा हि-ब्रह्मानन्दमेकमद्वयमात्मानं विजानतः किमर्थं कथं वा प्रवृत्तेः स्यात् , आप्तज्ञामत्वात् साधनाद्युपायाभावाच्च ? स्यादेतत्--औपनिषदपुरुष

"ज्ञानमेव कर्माङ्गवेन चोदितम् । "यदेव विघया करोति श्रद्धयोपनिषदा


1 B omits आपि

2

3 0 omite स्व

4 Tait-3-5-7-2

5 तत्रापि-A

6 Ohand. 8-16-1

7 दृष्टं प्रयोजनं--A

8 नाधिकारान्तरमै तत्-A

9 एतदप्यसत्-B and

10 Bgh. 8-8-8

11 Mund . 8-1-1

12 ChEnd. 6-8-2

13 न शब्दमपेक्षते–4

14 विज्ञान.A

15 Chand. 1 1-10