'तावता प्रयोगप्रत्यययोरुपपौ न विशेषज्यतिषजे प्रमाणमस्ति ; यो हि विशे यव्यति षनं कर्पयति, करुपयत्यसावर्थान्तरव्यतिषङ्गम् । तथा च विनापि अवश्य कार्येण पदार्थानां परस्परसंसर्गाद्विशिष्ट भूतार्थप्रत्ययसिद्धिः । चैत देवं विज्ञेयम् ; अन्यथा लोके विवक्षापरत्वात् पदार्थान्वयस्य, तदभावादेवे वेदार्थप्रतीतिर्न स्यात् । अपि च सर्वेषां कार्यान्वयित्वे परस्परं पदार्थाना मनभिसंबन्धः; तत्र न विशिष्टपदार्थविषयो नियोगः प्रतीयेत ; एकपदार्थ साध्य एव स्यात् । अथ न विनियोगप्रत्यर्थी नियोगः, विशिष्टविषयत्वात्; पूर्वस्तर्हि विनियोगःपश्चान्नियोगः । किमतः ? अस्ति नियोगातिरिक्तार्था , न्वयेऽपि पदस्य सामथ्यै नियोगानपेकं च, परस्परान्वितानां नियोगान्वयात् । न नियोगाकाङ्क्षानिबन्धनः संसर्ग इति प्रतिपादयिष्यते । अनधिगत च मपि प्रमाणान्तरेणानधिगततंबन्धं च स्वशब्देन शक्यं शब्देन निरूपयितुं विशेषप्रतिषेधमुखेन, विशेषशब्दानां नवश्च यथायथमथैर्विदितसंगतित्वात ; तथा चेत्थमेव तदुपदिश्यते. “’अस्थूलम् ” इति सर्वविषातिगम् । एतत् कथयति--भेदप्रपञ्चविलयद्वारेणेति । एतच्च वक्ष्यत इति । अन्योऽर्थः; यदुक्तम् - प्रत्यस्तमितसकलविशेषं तच्वं प्रतिपत्तेरेवा विषय इति, तत्रोच्यते-विशेषनिवृच्चैव तत् शब्देन बुद्धौ निधीयते, सुवर्ण तच्ववत् न हि सुवर्णतवं पिण्डरुचकादिसंस्थानभेदोपप्लवरहितं दृश्यते ;
न न त एव सुवर्णतवम, तत्परित्यागेऽपि भावात् संस्थानान्तरे ; अथ चाडष्टसंस्थानमेवोपप्लवविवेकमपि बुद्धचा भेदापोहद्वारेण स्वयं प्रतीयते, परस्मै च प्रतिपाद्यते ; स एवं प्रतिपत्तिक्रमः श्रुत्वैव दशितः —« स एव ' नेति नेति" इति ; तथान्यैः -सत्यमाहुतिसंहारे यदन्ते व्यवतिष्ठते” ; तचापरैः -~‘अध्यारोपापवादाभ्यां निष्प्रपषं प्रपश्यते ” इति । इदमिदानीं विचार्यते—किं कूत्र आनयो भेदप्रपञ्चविलयसुखेन अत्र
निरूपयति, आहोस्वित् कशिवस्यैकदेशः? तत्र केचिदाहुः- सर्वत्रैवान्नाये
1 तावता च-A and -B 2 ययाते -o, 3 वदAि. 4 Bh. *-8 5 'बितिदमेव तत् क- " |
6 एतदुभयत-c. 7 अत्रोच्यते—A. 8 स वैन-B 9 करत:-Aand B. . 10 B¢h. |
11 pdy 8-2-11 12 sa V.S.S.S. 13 A or प्रपञ्च. |