पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
25
ब्रह्मकाण्डः

निठत्यङ्गभावं जहति, तथा शब्दोऽपीति न किंचित् प्रदुष्यति । 'प्रयोक्र भिसंहिते प्रवृत्तिनिवृत्ती इति चेत् , न प्रयोक्रमिसंधानाच्छब्दार्थत्वम् , अपि तु सामथ्र्योत् ; अन्यथा निधिप्राप्तिद्वारिका नानाविधपुरुषार्थावाप्तिरपि तस्याभिसंहितेति शब्दार्थः स्यात् । यदा च प्रष्ठींत निवृतुिं वाभिसंधाय 'कंचित् प्रत्यक्षादिभिर्जिज्ञास्यते, तदाभिसंहिते अपि प्रवृत्तिनिवृत्ती न प्रत्यक्षादिप्रमेये; तथाभिसंहिते अपि प्रवृत्तिनिवृत्ती न शब्दाय । इतश्च तदेवम्-यत् कस्यचिदुपादानबुद्धिः, अन्यस्योपेक्षा; शब्दार्थत्वे हि सर्वेषामुपादानबुद्धिरेव स्यात् ।

न च । प्रवर्तकवाक्यव्यवहारादेव संबन्धावगमः, येन प्रवृत्तिपरतें बावगम्येत ; अन्यथापि दर्शनात् ; ‘देवदत्तः कामैः स्थाल्यामोदनं पचति इत्यव्युत्पन्नकाष्ठशब्दार्थे व्युत्पन्नेतरपदाथ. व्युत्पन्नविभक्स्यर्थश्च यत् पचत्यर्थं करणं पश्यति तस्य काष्ठमातेपदिकार्थतां प्रतिपद्यते । तथा हर्षविषादा श्वासप्तयोजनेभ्यः तवाख्यानेभ्यो हर्षादिनिमित्तेषु भवति व्युत्पत्तिः । यथैव हि प्रवृत्तिविशेषदर्शनाद्विशिष्टप्रवृत्तिप्रत्ययस्तन्निमित्तप्रत्ययो वानुमीयते, हेत्वन्तराभावात् शब्दानन्तर्या’च्छब्दस्य तत्र सामर्थे कल्प्यते, तथा इषुपलब्धेः हर्षादिनिमित्तप्रत्ययानुमानम्, शब्दानन्तर्याच 'शब्दस्य तत्र सामथ्र्यकल्पना । प्रमाणान्तरेण च पुत्रजन्मनो हर्षनिमित्तस्य तस्यावगतत्वान् दन्यस्यामात्रात , ‘पुत्रस्ते जातः’ इतीदं वाक्यमातेन तत्र 'पुत्रजन्मनि प्रयुक्तमिति प्रतिपद्यते ; पुत्रजन्मैव चास्माद्वाक्यादनेन प्रतीतमित्यवधारयति , तदेवं प्रयोगप्रत्ययाभ्यामस्मिन्नर्थे वाक्यस्य सामर्थं प्रतिपद्यते ।

भवतु वा लोके सर्ववचसां प्रवर्तकता, ततश्च संबन्धावगमः; तथापीदं विन्नार्यम्--किं विधायकपदव्यतिरेकिणां पदानां स्वार्थमात्रपरता, आहोस्वित् कार्यार्थसंसर्गपरता, उत पदार्थमात्रसंसर्गपरतेति । तत्र स्वार्थगात्रपर्यवसाने

वाक्यार्थप्रत्ययाभावः प्रयोगवैयर्थे च स्यात् ? तस्मादन्यायेंव्यतिषङ्गपरता ।


1 A omit प्र.

2 यत्कािषि-<A and B.

3 तत्वान्वाख्यानेभ्यो–B And C

4 शत्रय--B.

5 शब्दसामर्थंकल्पना—B.

6 स्य चाभावात्-A and B

7 A and B omit पुत्रजन्मने.

8 चसामपि-A.

9 onits स्यात्

10 व्यतिषकः--A And B