पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
27
ब्रह्मकाण्डः

कचित् कस्यचिद्वेदस्य प्रविलयो गम्यते, यथा ‘स्वर्गकामो यजेत’ इति 'शरीरामभावस्य प्रविलयः ; अत्र ‘हि देहव्यतिरिक्तस्वर्गोपभोगसमर्थाऽ- धिकारी गम्यते ; तेन देहात्ममाव‘प्रविलयः । तथा “ गोदोहनेन पशुकामस्य प्रणयेत् ” इत्यधिकृताधिकारादधिकारिभेद'प्रविलयः । तथा विधिनिषेध- चोदनास्वपि नैसर्गिकीणां रागादिनिबन्धनानां प्रवृत्तीनां *प्रविलयः ; निषेधेषु साक्षात् , विधिषु ‘प्रवृच्यन्तरनियोगेन ; लोकेऽप्यनभिप्रेतात पथः साक्षाद्वा निवारणम, पथ्यन्तरोपदेशेन वा । एवं च रागादिनिबन्धननैसर्गिकप्रवृत्ति “भेदविलयद्वारेण दृष्टेनैव कर्मविधय आरमज्ञानाघिकारोपयोगिनः । तथा हि--शान्तस्य दान्तस्य समाहिनस्य चात्मनि दर्शनमुपदिश्यते; शक्यं च ; न हि विषयैराकृष्यमाणस्तदुपायप्रवृतिछतचेताः शक्तोत्यात्मनि समाधातुम् ; नैसर्गिकीभ्यस्तु प्रवृत्तिभ्य उपरतो नियतमानस आत्मदर्शनेनाधिक्रियते, सा

अन्ये "तु मन्यन्ते-अनवाप्तकामः कामोपहतमना न परमाद्वैतदर्धन योग्यः; कर्मभिस्तु कृतकामनिबर्हणः सहस्रसंवत्सरपर्यन्तैः प्राजापत्यात् पदात् परमद्वैतमात्मानं प्रतिपद्यत इति । उभयोरपि पक्षयोरनयोः कुल आम्नाय आत्मज्ञानैककार्यपर्यवसायी ।

अन्येषां दर्शनम्--पृथकार्या एव सन्तः कर्मविधय आस्मज्ञानाधिकार मवतारयन्ति पुरुषम्, अनपाकुतर्णत्रयस्य तत्रानधिकारात्--"ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्” इति ।

अन्ये तु-संयोगपृथक्त्वेन सर्वकर्मणामेवात्मज्ञानाधिकारानुप्रवेशमाहुः ५ 1विविदिषन्ति यज्ञेन ” इति श्रुतेः‘येन केनचन यजेतापि दर्वाहोमेना-

नुपहतमना एव भवति " इति च ।


1 शरीरमत्वस्य -A; शरीरस्य-C.

2 C omits हि.

3 देहा-B.

4 विळ्यःA

5 Apx-s-Su. -1-16-3,

6 प्रवृत्त्यन्तरोपदेशेन-A and B.

7 साक्षाद्विनिवारणम् A:

8 A omits भेद.

9 B omit8 दान्तस्य.

10 राक्षिष्य–B,

11 A omis

12 परार्धेत-A.

13 A omits अनयोः,

14 Manu. 8-86.

15 Brh. 4-4-26.

16

17 A and Pomit